________________
१९०
तत्वसंग्रहे एवमपि जातेस्सवात्मना प्रत्याश्रयपरिसमासत्वादेकोऽपि प्रासादः 'माला' इत्युच्येत, वृक्षवत्। यथोक्तम्
"गेहो यद्यपि संयोगस्तन्माला किन्नु तद्भवेत्। जातिश्चेद् गेह एकोऽपि मालेत्युच्येत वृक्षवत् ।।"
__ (प्र० वा० २. १५५-५६) इति । एका, दीर्घा महीत्यादिव्यपदेशानुपपत्तिश्च तदवस्थैवमालायाम्, तदाश्रये च प्रासादादौ; एकत्वादिगुणाभावात्। काष्ठादिषु च विवक्षितदैर्ध्याद्यसद्भावात्। बह्वीषु च प्रसादमालासु माला मालेत्यनुगामी व्यपदेशो न स्यात्; जातेरजातितः । यदाह- .
"मालाबहुत्वे तच्छब्दः कथं जातेरजातितः" (प्र० वा० २.१५६) इति।
अत उपचारस्याश्रयः परिग्रहः, यद्वाऽऽश्रयः=अधिष्ठानं न युक्तमित्यर्थः । न चाप्ययं स्खलद्गतिर्मालादिषु महत्त्वादिप्रत्ययः। तस्मानौपचारिको युक्तः, न हि मुख्यप्रत्ययाविशिष्टो गौणो युक्तः; अतिप्रसङ्गात्। यदाह
"मालादौ च महत्त्वादिरिष्टो यश्चौपचारिकः। . मुख्यविशिष्टविज्ञानग्राह्यत्वान्नौपचारिकः ॥"
' (प्र० वा० २.१५७) इति ना ६४९ ॥ तत्र 'इदमस्मात् पृथक्' इति यद्वशात् संयुक्तमपि द्रव्यमपोद्भियते, तदपोद्धारकारणं पृथक्त्वं नाम। तच्च घटादिभ्योऽर्थान्तरं तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वादिति पूर्ववत् [G.217] परस्याभिप्रायः । तदत्रापि परिमाणवदसिद्धत्वमनैकान्तिकत्वं च हेतोरिति हृदि कृत्वाह
अपोद्धारव्यवहतिः पृथक्त्वाद्या तु कल्प्यते।
कारणात् सा विभिन्त्रात्मभावनिष्ठा न किं मता ॥६५०॥ तथा हि-अत्रापि रूपादिभ्यो विवेकेन नापरमर्थान्तरं पृथक्त्वं नाम प्रत्यक्षबुद्धौ प्रतिभासत इति न सिद्धमस्य तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वम्। अत एव च तस्योपलब्धिलक्षणप्राप्तत्वेनाभिमतस्यानुपलम्भादसत्त्वमेव । न चापि पृथगिति विकल्पप्रत्ययवशात् तस्य सिद्धिः। त एव हि रूपादयो भावाः स्वस्वभावस्थितेः सर्वभावानां सजातीयविजातीयव्यावृत्तात्मतयाऽपेक्ष्यमाणाः पृथगिति व्यवहारनिबन्धनं भविष्यन्तीति नातो वस्त्वन्तरसिद्धिः । तस्माद्येयमपोद्धारव्यवहति: व्यवहारः, पृथक्त्वात् कारणाद् वर्ण्यते, सा किमिति समानासमानजातीयविभिन्नस्वभावभावनिष्ठा न मता। तन्निष्ठैव युक्तेति भावः । एतेनानैकान्तिकत्वं हेतोर्दर्शितम्। विभिन्न आत्मा स्वभावो येषां ते तथोक्ताः । ते च ते भावाश्च, तेषु निष्ठा परिसमाप्तिर्यस्या इति विग्रहः ॥ ६५०॥ साध्यविपक्षेऽपि हेतोवृत्तिर्दृश्येतेति दर्शयन्नाह
परस्परविभिन्ना हि यथा बुद्धिसुखादयः।
पृथग्वाच्यास्तदङ्गं च विनाऽन्येन तथाऽपरे ॥ ६५१॥ न हि सुखादिषु गुणेषु पृथक्त्वं गुणोऽस्ति, निर्गुणत्वाद् गुणानाम् । अथ च परस्परव्यावृत्तात्मतया ते पृथगिति वाच्या भवन्ति । तस्याश्चापोद्धारव्यवहतेरङ्गं निमित्ततां प्रतिपद्यन्ते।