________________
१८९
गुणपदार्थपरीक्षा बुद्धिविलक्षणप्रत्यक्षप्रत्ययग्राह्यत्वादिति हेत्वर्थोऽभिप्रेतः, तदा हेतोरसिद्धना । नहि तथातथाऽवस्थितरूपादिपदार्थव्यतिरेकेण महदादिपरिमाणमिन्द्रियबुद्धौ प्रतिभासमानमुपलक्ष्यते।।
अथ अणु, महदादीत्येवं या विकल्पिका बुद्धिः सा तत्प्रत्ययविलक्षणा बुद्धिरभिप्रेता? एवमप्यनैकान्तिकता हेतोः, विपक्षे बाधकप्रमाणाभावाद्। न ह्यस्याः परमार्थतः किञ्चिदपि ग्राह्यमस्ति; साभिजल्पत्वात्। केवलं तेष्वेव रूपादिष्वेकदिङ्मुखादिप्रवृत्तेषु दृष्टेषु तद्विलक्षणेभ्यो रूपादिभ्यो भेदप्रतिपादनाय कृतसमयानुरोधान्महदित्यध्यवस्यन्ती जायत इति नातो वस्त्वन्तरसिद्धिः । अत एव चाऽस्या न रूपादिव्यतिरिक्तमवसेयमस्तीत्यसिद्धतापि हेतोः। प्रतिज्ञायाश्च प्रत्यक्षबाधा; प्रत्यक्षत्वेनेष्टस्य महदादे रूपत्वदिव्यतिरेकेणानुपलम्भात्। तस्मात्तदपि परिमाणमर्थे रूपादावेकदिङ्मुखादिप्रवृत्ते तस्यार्थस्यातथोद्भूताद् भेदमाश्रित्य किं न तादात्म्येनेष्टम् ! एवं ह्यदृष्टायुक्तपदार्थकल्पना न कृता स्यादित्येवकारेण दर्शयति। तथा हिएकदिङ्मुखप्रवृत्ते भूयसि रूपादिके दृष्टे स्पृष्टे वा दीर्घमिति व्यवहरन्ति । तदपेक्षया चाल्पीयसि समुत्पन्ने ह्रस्वमिति । एवं महदादिष्वपि योज्यम्। रूपादिनिषेधवच्चैकानेकवि-कल्पाभ्यां महदादिनिषेधो वाच्यः ॥ ६४६ ।। अपि च साध्याभावेऽपि हेतोवृत्तिदर्शनादनैकान्तिकता स्फुटतरेति दर्शयन्नाह
दीर्घा प्रासादमालेति महती वेद्यते यथा। न हि तत्र तथारूपं परिमाणं प्रकल्पितम् ॥६४७॥
एकार्थसमवायेन तथा चेद् व्यपदिश्यते। [G.216] तथा हि-असत्यपि भवत्परिकल्पिते महत्त्वादौ प्रसादमालादिषु महदादिप्रत्ययप्रसूतिरनुभूयते। न चेत्थं शक्यं वक्तुम्-यत्रैव प्रासादादिषु मालाख्यो गुणः समवेतस्तत्र महत्त्वादिकमपि, तेनैकार्थसमवायबलात्, तथा महतीत्येवं तन्मालादि व्यपदिश्यत इति। तदेतदपि स्वसमयविरुद्धमिति दर्शयन्नाह
न महत्त्वं न दैर्घ्यं च धामस्वस्ति विवक्षितम् ॥६४८॥ धामस्विति प्रासादेषु। विवक्षितमिति क्रोशार्धक्रोशादि परिमाणम्॥ ६४७-६४८ ॥ कस्मान्नास्ति? इत्याह.... प्रासादश्शेष्यते योगो गुणः सोऽपरिमाणवान्।
. न तस्यास्त्यपरा माला नोपचाराश्रयोऽप्यतः ॥६४९॥ ... तथा हि-भवद्भिः प्रासादः संयोगात्मको गुण इष्यते, नावयविद्रव्यम्; विजातीयद्रव्यानारम्भात्। स च गुणः परिमाणवान्न भवति; 'निर्गुणा गुणाः' इति समयात् । ततश्च गुणानां प्रासादादीनां मालाख्यस्यापरस्य गुणस्याभावात् प्रासादमालेत्येतदेव न स्यात्, कुतो महती, ह्रस्वेत्यादि भविष्यति। तथा हि-माला सङ्ख्यास्वभावेष्टा, सङ्ख्या च गुणत्वाद् द्रव्यमेवाश्रिता, न गुणम्। अथाऽप्यवयविस्वभावा मालेष्यते, तदापि द्रव्यस्य द्रव्यमेवाश्रयः, न गुण इति न मालायाः प्रासादाश्रयत्वं युक्तम् । अथ जातिस्वभावा मालाऽङ्गीक्रियते? १. नोपचारस्य चाश्रय:- पा०, गा०। . २. यदा-पा०, गा०/ ३. तथापि-पा०, गा०।