SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १८८ तत्वसंग्रहे तत्रेष्टसिद्धिर्बुद्धयादौ सङ्ख्यैतेनैव वा भवेत्॥६४४॥ गजादिव्यतिरिक्तस्य सङ्केतमनस्कारादेरान्तरस्य निमित्तत्वेनेष्टत्वात्, सिद्धसाध्यतैव। आदिशब्देन सङ्केतस्मरणादिपरिग्रहः । अथ सङ्केताभोगादिव्यतिरिक्तपदार्थनिबन्धनं साधयितुमभिप्रेतम्, तदानैकान्तिकतेति प्रसङ्गोद्भावनव्याजेन दर्शयति-बुद्ध्यादौ संख्यैतेनैव वा भर्वेदति । एतेनैव='तत्प्रत्ययविलक्षणत्वात्' इत्यनेन। एका बुद्धिः, द्वे बुद्धी, पञ्च कर्माणीत्यादावपि सङ्ख्या भवेत् प्राप्नोति । तत्राप्येकादिबुद्धेस्तत्प्रत्ययविलक्षणत्वात्। न च भवति, तस्मादनैकान्तिक इति भावः ॥ ६४४॥ किञ्च-याऽनेकद्रव्या द्वित्वादिसङ्ख्या, तस्या येयमेकत्वेभ्योऽनेकबुद्धिसहितेभ्यो निष्पत्तिर्वर्ण्यते भवद्भिः, सा निर्निबन्धनेति दर्शयति बुद्धयपेक्षा च सङ्ख्याया निष्पत्तिर्यदि वर्ण्यते। . संकेताभोगमात्रेण तद्बुद्धिः किं न सम्मता॥६४५॥ . मात्रग्रहणमेकत्वद्वित्वादितत्सामान्यतत्सम्बन्धज्ञानव्यच्छेदार्थम्। तबुद्धिरिति । सङ्ख्येयेषु द्वे त्रीणि चत्वारीत्यादिका बुद्धिः संकेताभोगमात्रेण किं न सम्मता! एवं ह्यदृष्टसामर्थ्यस्य हेतुत्वं न कल्पितं स्याद्, अन्यथा हि हेतूनामनवस्था भवेत्। तथा हि- अपेक्षया बुद्धिसद्भावे. भावात् तद्गतान्वयव्यतिरेकानुविधानात् सैव कल्पयितुं युक्ता; अन्यथा हि हरीतकी प्राप्य देवता विरेचयन्तीत्यपि कल्पनीयं भवेत्। नापि समुच्चयादिव्यावृत्तपदार्थव्यतिरेकेणोपलब्धिलक्षणप्राप्ताऽभिमता द्वित्वादयो दृश्यन्ते सङ्गच्छन्ते वा; एकस्यानेकस्मिन् वृत्तेः प्रतिषिद्धत्वात्। सामान्यसमवाययोश्च निषेत्स्यमानत्वादिति भावः ॥ ६४५ ॥ . महदित्यादिना परिमाणप्रतिषेधमाह महदीर्घादिभेदेन परिमाणं यदुच्यते। तदप्यर्थे तथा रूपभेदादेव न किं मतम् ॥६४६॥ परिमाणव्यवहारकारणं परिमाणम्। तच्चतुर्विधम्-महद्, अणु, दीर्घम्, ह्रस्वमिति। तत्र महद् द्विविधम्-नित्यम्, अनित्यं च। नित्यमाकाशकालदिगात्मसु परममहत्त्वम्। अनित्यं त्र्यणुकादिद्रव्येषु। तथाण्वपि द्विविधम्-नित्यमनित्यं च। नित्यं परमाणु मनः सुपरिमण्डल[G.215] लक्षणम्। अनित्यं व्यणुक एव । कुवलामलबिल्वादिषु च महत्स्वपि तत्प्रकर्षाभावमपेक्ष्य भाक्तोऽयं व्यवहारः। यादृशं ह्यामलके महत् परिमाणम्, न तादृशं कुवल' इति। एवमन्यत्रापि योज्यम्। अत्र त्र्यणुकादिषु वर्तमानयोर्महत्त्वदीर्घत्वयोर्यणुके चाणुत्वह्रस्वत्वयोः को विशेषः? उच्यते; तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः, महत्सु 'दीर्घमानीयताम्', दीर्धेषु च 'महदानीयताम्' इति व्यवहारभेददर्शनात्। अणुत्वहस्वत्वयोस्तु विशेषस्तद्दर्शिनां योगिनां प्रत्यक्ष इत्येषा पेरषां प्रक्रिया। एतच्च महदादि रूपादिभ्योऽर्थान्तरत्वेन सिद्धम् तत्प्रत्ययविलक्षणबुद्धिग्राह्यत्वात्, सुखादिवदिति परो मन्यते। तत्र यदि.तावद्रूपादिविषयेन्द्रिय१. पा०, गा० पुस्तकयो स्ति। २. बदरः कुमुदो वेत्यर्थः।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy