________________
गुणपदार्थपरीक्षा
१८७ अथ मतम्- गौणमिदं तेषु, ज्ञानमेकमिवैकम्, साधर्म्य चात्रासहायत्वादि। तत्राह'तज्ज्ञानमिति। नैव ह्येतज्ज्ञानं भाक्तं युक्तम् अस्खलद्गतित्वादस्य प्रत्ययस्य। न हि यथा वाहीको गौरिति स्खलति प्रत्ययः-गौरिव गौर्न तु गौरेव, सास्नाद्यभावादिति; न तथायं स्खलतिः-एकमिवैकं ज्ञानादि न त्वेकमेवेति, किं तर्हि ? यादृशी घटादिष्वस्खलिता [G.213] बुद्धिर्भवति तादृशी ज्ञानादिष्वपि॥ ६३८-६३९॥
स्यादेतत्- न सादृश्यापेक्षमेतज्ज्ञानमुपवर्ण्यते, किन्तु यत्तेषामाश्रयभूतं द्रव्यं तद्गतैकत्वादिकार्थसमवायित्वादेतद्गणकर्मसमवायादिष्वेकादिज्ञानं भवतीति? तदेतदाशङ्कयन्नाह
तद्व्यसमवेताच्चेदेकत्वात् परिकल्प्यते।
गुणादिष्वेकविज्ञानमेकार्थसमवायतः ॥६४०॥ अत्रोत्तरमाह
अस्त नामैवमेकत्र ज्ञाने 'द्वयादिमतिस्त कम्। एतेष्वपेक्षते हेतुं । षट्पदार्थादिकेषु वा॥६४१॥ एकार्थसमवायादेगौणोऽयं प्रत्ययो भवेत्।
तथा च स्खलितो यस्मान्माणवेऽनलबुद्धिवत्॥६४२॥ यदि हि तव्व्यसमवेतादेकत्वादेरेतज्ज्ञानम्, तदाऽस्तु नामैकत्र ज्ञाने सुखादौ चैकात्मद्रव्यसमवायिन्येकमेकमिति ज्ञानम्, द्वे त्रीणि चत्वारि ज्ञानानीत्यादिज्ञानस्य तु को हेतुः, न हि. तत्रैकात्मगतं द्वित्वाद्यस्ति! यच्चैतदुच्यते-षट् पदार्थाः, सुखदुःखे, इच्छाद्वेषौ, पञ्चविधं कर्म, सामान्यं द्विविधम्=परमपरं च, एको भावः, एक: समवाय इति; तत्र को हेतुः, न हि तत्रै-कार्थसमवायिनी सङ्ख्यास्ति! तस्मादव्यापिनीत्वादियमपि कल्पना न युक्ता।
किञ्च--एकार्थसमवायोऽन्यो वा स्वमतिपरिकल्पतो हेतुरुच्यते, तथाप्येकार्थसमवायादेरयं भवन् प्रत्ययो गौणः स्याद्; वस्त्वन्तराभावात्। ततस्तु स्खलतिः स्याद्, यथामाणवकेऽनलप्रत्ययः; तत्प्रवृत्तिनिमित्ताभावात् । न चैवं भवति, तस्मात् पूर्वोक्तदोषावृत्तिरेव ॥ ६४१-६४२॥ गजादीत्यादिनाऽविद्धकर्णोक्तं सङ्ख्यासिद्धये प्रमाणमाशङ्कते
गजादिप्रत्ययेभ्यश्च वैलक्षण्यात् प्रसाध्यते। - सेनाबुद्धिस्तदन्योत्था नीलवस्त्रादिबुद्धिवत्॥६४३॥
स ह्याह- सङ्ख्याप्रत्ययो गजतुरङ्गस्यन्दनादिव्यतिरिक्तनिबन्धनः; गजादिप्रत्ययविलक्षणत्वात्, नीलपटप्रत्ययवदिति। तदन्योत्थेति। तस्माद् गजतुरगस्यन्दनादेरन्यस्तदन्यः, तत उत्थानं यस्या इति विग्रहः ॥ ६४३॥ इच्छेत्यादिना प्रतिविधत्ते
[G.214] __इच्छारचितसङ्केतमनस्काराद्युपायतः ।। १. जै०, पा० पुस्तकयोनास्ति।
२. व्याप्तिमति-पा०। ३. भवन्-पा०, गा०/
४. ०दोषानिवृत्तिरेव- पा०, गा०॥ ५. संख्याबुद्धि०-पा०, गा०।