________________
१८६
तत्वसंग्रह भुव एकदेशे जलेन गन्धस्याभिव्यक्तौ प्रदेशान्तरेऽप्यभिव्यक्त्युपलब्ध्योः प्रसङ्गः। ज्वालादेराम्रफलादेश्चैकदेशस्य स्पृष्टावास्वादने च तद्र्व्यसमवायिनस्तावतः स्पर्शस्य रसस्य चोपलब्धिः स्यात् ।। ६३५॥ स्यादेतद्-भवत एव सकलस्य नीलादेरुपलब्ध्यभिव्यक्ती? इत्याह
न च देशविभागेन स्थितो 'नीलादिरीक्ष्यते।
व्यज्यते वा तदा तेन तस्य भेदोऽणुशस्ततः॥६३६॥ ततेत तस्मिन्काले। तेनेति रन्ध्रालोकेन। तस्येति नीलादेः । अणुशः स्वभेदेऽङ्गीक्रियमाणे पृथिव्यादिपरमाणुद्रव्यवदणुपरिमाणयोगित्वेन गुणवत्त्वाद् द्रव्यरूपतैव स्यात्, न [G.212] गुणत्वम्। एवम्भूतानां चाणुशो भिन्नानाम् 'गुणः' इति संज्ञाकरणेन नाम्रि विवादः । न चाणुत्वेऽप्याश्रितत्वाद् गुणत्वं युक्तम्; सदसतोराश्रयानुपपत्तेरतिप्रसङ्गाच्च । तथा हिअवयविद्रव्यमवयवद्रव्याश्रितमिति तदपि गुणः स्यादिति भावः ॥ ६३६ ॥
तत्रैकादिव्यवहारहेतुरेकत्वादिलक्षणा सङ्ख्या, सा पुनरेकद्रव्या च, अनेकद्रव्यां च। तत्रैकसङ्ख्यैकद्रव्या, अनेकद्रव्यातु द्वित्वादिसङ्ख्या। तत्रैकद्रव्यायाः-सलिलादिपरमाण्वादिगतरूपादीनामिव नित्यत्वनिष्पत्तयो बोद्धव्याः।अनेकद्रव्यायास्तु-एकत्वेभ्योऽनेकविषयबुद्धिसहिंतेभ्यो निष्पत्तिः, अपेक्षाबुद्धिविनाशाद् विनाशः; क्वचिदाश्रयविनाशादिति। इयं च द्विविधाऽपि सङ्ख्या किल प्रत्यक्षत एव सिद्धा। विशेषबुद्धेश्च निमित्तान्तरापेक्षत्वादनुमानतोऽपीति परो मन्यते। तत्रास्याः प्रतिषेधमाह.- ..
अतद्रूपपरावृत्तगजादिव्यतिरेकिणी । ।
न सङ्ख्या भासते ज्ञाने दृश्येष्टा नैव सास्ति तत्॥६३७॥ ___ येषु हि समुच्चयादिव्यावृत्तेषु गजादिषु संज्ञा निवेशिता, न तद्व्यतिरेकेणोपलब्धिलक्षणप्राप्ता सङ्ख्या ख्यातास्तीति सा शशविषाणवदसद्व्यवहारविषया। तथा ह्यसौ दृश्यत्वेनेष्टा। तथा च सूत्रम्- "सङ्ख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे कर्म च रूपिसमवायाच्चाक्षुषाणि" (वै०द० ४.१.१२) इति ॥ ६३७॥ न चापि विशेषबुद्धितः सङ्ख्यासिद्धिरिति दर्शयन्नाह
इच्छारचितसंकेतमनस्कारान्वयं त्विदम्। घटाघेकादिविज्ञान ज्ञानादाविव वर्तते॥६३८॥ अद्रव्यत्वान्न सङ्ख्यास्ति तेषु काचिद् विभेदिनी।
तज्ज्ञानं नैव युक्तं च भाक्तमस्खलितत्वतः॥६३९॥ यथा ह्येकं ज्ञानम्, द्वे ज्ञाने- इत्यादौ सङ्ख्यामन्तरेणाप्येकादिबुद्धिर्भवति, एवं घटादिष्वप्यसहायादिषु पदार्थेष्वेक इत्यादिः स्वेच्छया यः सङ्केतो विहितः, तत्र यो मनस्कार:= आभोगः, तदन्वयमेकादिज्ञानं भविष्यतीत्यनैकान्तिकमेतत् । न हि तेषु ज्ञानादिषु सङ्ख्याऽस्ति; एषामद्रव्यत्वात्, सङ्घयायाश्च गुणत्वेन द्रव्याश्रितत्वात्। १. नीलादिरिष्यते-पा०, गा०।
२. य:-पा०, गा०1 ३. ०लक्षण-पा०,गा।
४. घटेष्वेकाo- पा०, गा०। ५.तु-पा०, गा०।