________________
११. गुणपदार्थपरीक्षा
गुणादीनां निषेधमाह• द्रव्याणां प्रतिषेधेन सर्व एव तदाश्रिताः।
गुणकर्मादयोऽपास्ता भवन्त्येव तथा मताः॥६३३॥ गुणकर्मादयो विशेषपर्यन्ता द्रव्याणां प्रतिषेधादेवापास्ताः, तदाश्रितत्वादेषाम्।आश्रयाभावे चाश्रितानां परतन्त्रतयाऽवस्थानुपपत्तेः। तथा मता इति। तथा साक्षात्, पारम्पर्येण वा द्रव्याश्रितत्वेनेष्टाः । तथा हि-गुणकर्मणि साक्षादेव द्रव्याश्रितत्वेनाभीष्टे । तथा च सूत्रम्"द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम्" (वै० द० १.१.१५)। "एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षं कारणमिति कर्मलक्षणम्" (वै० द० १.१.१६)। एकद्रव्यमिति। एकद्रव्याश्रितमित्यर्थः । गुणास्तु केचिदनेकद्रव्यवर्त्तिनो भवन्ति, यथासंयोगविभागादयः। सामान्यविशेषाश्च केचिद् द्रव्यवृत्तय एव, यथा-पृथिवीत्वादयः। गुणत्वकर्मत्वादयश्च द्रव्यसम्बद्धगुणकर्मपदार्थवृत्तयः । महासामान्यं तु सत्ताख्यं द्रव्यादिपदार्थत्रयवृत्ति । तस्माद् द्रव्ये प्रतिषिद्ध सत्ययत्नेनैव गुणादयोऽपि निषिद्धा भवन्तीति। परिशिष्टपदार्थपरीक्षाफलं द्रव्यपरीक्षायामेव समाप्तमिति दर्शितं भवति ॥ ६३३ ॥ समवायप्रतिषेधस्तर्हि पृथगारब्धव्य इति चेद् ? आह
क्व कस्य समवायश्च सम्बन्धिन्यपहस्तिते।
विशेषप्रतिषेधोऽयं तथापि पुनरुच्यते॥६३४॥ पञ्चपदार्थवृत्तिरूपो हि समवायो वर्ण्यते । द्रव्यादौ च सम्बन्धिनि पञ्चप्रकारे-[G.211] ऽपहस्तिते क्व.कस्य समवायः ! नैव कस्यचित् क्वचिदित्यर्थः । सर्वेषामाश्रयाश्रितानां प्रतिषिद्धत्वात् तत्र गुणानां तावद् विशेषप्रतिषेधः उच्यते॥ ६३४॥
तत्र "रूपरसगन्धस्पर्शा सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखंदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणाः" (वै० द० १.१.५) इति सूत्रम्। 'च-शब्दाद् गुरुत्वद्रवत्वस्नेहसंस्कारधर्मशब्दाश्च परिगृह्यन्ते । तत्र रूपं चक्षुर्लाह्यं पृथिव्युदकज्वलनवृत्ति। रसो रसनेन्द्रियग्राह्यः पृथव्युदकवृत्तिः । गन्धो घ्राणग्राह्यः पृथिवीवृत्तिः। स्पर्शस्त्वगिन्द्रियग्राह्यः क्षित्युदकज्वलनवायुवृत्तिः । एषां चतुर्णामाद्यानां रूपादीनां प्रतिषेधमाह
द्रव्ये महति नीलादिरेक एव यदीष्यते।
रन्ध्रालोकेन तद्वयक्तौ व्यक्तिर्दृष्टिश्च नास्य किम्॥६३५॥ महत्येव हि द्रव्ये समवेतानामुपलब्धिलक्षणप्राप्तत्वम्, अतो महतीत्याह।
तत्र च द्रव्ये यद्येकमेवानवयवं नीलादि चतुर्विधमिष्यते, तदा सूक्ष्मेणापि कुञ्चिकादिविवरवर्त्तिना प्रदीपाद्यालोकेन त्वपवरकादिस्थितपृथुतरघटादिद्रव्यसमवेतस्य नीलादिरूपस्याभिव्यक्तौ सत्यां सकलस्यैव यावद्र्व्यवर्त्तिनो रूपादेरभिव्यक्तिरुपलब्धिश्च प्राप्नोति; निरवयवत्वात्। न ह्येकस्यावयवाः सन्ति येनैकदेशाभिव्यक्तिर्भवेत्। रन्ध्रलोकेनेत्युपलक्षक्षणम्। १-१. अत्रैव सूत्रे चन्द्रानन्दविरचितवृत्तिरियम्।