________________
१८४
पौर्वापर्यादि विद्यते, ततस्तयोरपि दिक्कालयोः सम्बन्धिगतमेतत् पौर्वापर्यादि निर्दिश्यते, तस्मान्न विरुद्धता हेतोरिति भाव: ?
अत्रोत्तरमाह — एवं तौ निष्फलौ नन्विति । एवं हि कल्प्यमाने तौ दिक्कालौ निष्फलौ स्याताम्; तत्साध्याभिमतस्य कार्यस्य तैरेव सम्बन्धिभिर्निष्पादितत्वात् । तथा हि- काल: पूर्वापरक्षणलवनिमेषकाष्ठाकलामुहूर्त्ताहोरार्धमासादिप्रत्ययप्रसवहेतुः । दिक् च पूर्वोत्तरादिव्यवस्थाहेतुरिष्यते । अयं च भेदः सकलस्तयोर्न स्वात्मनि विद्यते, भेदेषु पुनरस्तीति व्यथैव तत्परिकल्पना ॥ ६२८-६२९॥
तत्वसंग्रहे
मनःसाधनहेतोरपि सामान्येन कारणमात्रे साध्ये सिद्धसाध्यतेति दर्शयतिचक्षुराद्यतिरिक्तं तु मनोऽस्माभिरपीष्यते ।
षण्णामनन्तरोद्भूतप्रत्ययो यो हि तन्मनः ॥ ६३० ॥
विशेषेण तु नित्यैकमनस्साधनेऽनन्वयः प्रतिज्ञायाः, अनुमानबाधा, विरुद्धता च हेतोरिति दर्शयति
नित्ये तु मनसि प्राप्ताः प्रत्यया यौगपद्यतः । .
तेन हेतुरिह प्रोक्तो भवतीष्टविघातकृत् ॥ ६३१॥ इष्टविघातकृदिति । चक्षुरादिव्यतिरक्तानित्यकारणसापेक्षत्वस्य' सांधनात्', अन्यथा नित्यकारणत्वे सत्यविकलकारणत्वात् क्रमोत्पत्तिर्विरुध्येत चेतसाम्॥ ६३०-६३१ ॥ तामेव च विरुद्धतां हेतोरुपहासपूर्वकं दृढीकुर्वन्नाह - सौगतापरनिर्दिष्टमनः संसिद्ध्यसिद्धये ।
[G.210] एतदेवं मन्ये-सौगततीर्थिकयोरभीष्टस्य मनसः सिद्ध्यसिद्ध्यर्थमिदम् “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् " (न्या० द० १.१.१६ ) इति सूत्रम् । एकस्मिन् पक्षेऽकारप्रषादिति समुदायार्थः।
अवयवार्थस्तूच्यते-सौगताश्चापरे च तीर्थिकास्तैर्निर्दिष्टे च ते मनसी चेति विग्रहः । तयोर्यथाक्रमं सिद्ध्यसिद्धी, संसिद्धिसहिता वाऽसिद्धिः, तदर्थं तन्निमित्तम् । कथं पुनरेकं सूत्रं विरुद्धमर्थद्वयं गमयति ? इत्याह
साकारमन्यथाऽऽवृत्तं मन्ये सूत्रमिदं कृतम् ! ॥ ६३२ ॥
सह अकारेण वर्त्तत इति । परकीयमनोऽसिद्ध्यर्थम् 'अलिङ्गम्' इति प्रविष्टाकारो निर्देशः । सौगतमनस्सिद्धयेऽन्यथा भवति अनकारमित्यर्थः । साकारत्वानकारत्वे कथमेकस्य सिध्यतः ? इत्याह- आवृत्तमिति । आवृत्तिः = तन्त्रम्, न्याय्येति यावत् ॥ ६६२ ॥
इति द्रव्यपदार्थपरीक्षा ॥
१९. सापेक्षत्वसाधनात् पाउ, गाए।
-
२. संसिद्ध्यस्ति पा०, गा० ।
३. तत्र पा०, गा० ।