________________
द्रव्यपदार्थपरीक्षा
१८३ ततश्च तत्प्राप्तानां सर्वेषामपि शब्दानां श्रवणं भवेत्, न हि निर्विभागत्वेन तस्यायं प्रतिनियमो युक्तः- इदमात्मीयं श्रोत्रम्, इदं परकीयमिति।
__स्यान्मतम्- 'तदीयादृष्टाभिसंस्कृता या कर्णशष्कुली तत्परिच्छिन्नस्यैवाकाशस्य श्रोत्रत्वम्, अत एव न मुखनासिकादिविवरान्तरेण शब्दोपलम्भो जायते, तस्या एव च कर्णशष्कुल्या उपघाताद् बाधिर्यादिर्व्यवस्थाप्यते' इति? एतदयुक्तमेव; निरंशतयाऽऽकाशस्यैवंविधाविभागस्यायोगात्। न च परिकल्पिता अवयवविभागा भाविकवस्तुविभागसंसाध्यामर्थक्रियामारोपवशात् सम्पादयितुमीशते । न हि जलमनल इत्युपचर्यमाणं ज्वलति, दहति वा।
__ अथ मतम्- आकाशस्य देश' इति संयोगस्याऽव्याप्यवृत्तित्वमुच्यत' इति? एतदपि प्रत्युक्तमेव।
किञ्च– घटकर्णशष्कुल्यादयोऽप्यभित्रैकव्योमसंसर्गितया समानदेशा भवेयुः । येनैव हि व्योमस्वभावेनैक: संयुज्यते, तेनैवापरेऽपीति, ततश्चाभिमतदेशभाविन एवापरेऽपि घटादयः स्युः; तत्संयुक्तस्वभावाकाशसंयोगित्वात्, तद्देशावस्थितघटादिवत्। अत एव शब्दानामप्येकदेशत्वं भवेत्, ततश्च दूरासन्नतरदेशंभेदावस्थाऽतिप्रतीता येयं पदार्थानां केषाञ्चित्, सा विरोधिनी स्यादित्येवमादयो दोषा बहवः प्रसर्पन्ति ॥ ६२७॥
कालदिक्साधनयोरपि सामान्येन सिद्धसाध्यता, विशेषेणान्वयासिद्धिर्हेतोः, प्रतिज्ञायाश्चानुमानबाधेति दर्शयति
विशिष्टसमयोद्भूतमनस्कारनिबन्धनम् ।
'परापरादिविज्ञानं न कालान्न दिशश्च तत्॥६२८॥ विशिष्टसमय:- पौर्वापर्यादिनोत्पन्नेष्वेवार्थेषु पूर्वापरादिसङ्केतः, तदुद्भूतो मनस्कार:= पौर्वापर्यादिनोत्पन्नेष्वेवार्थेषु पूर्वापरादिसङ्केतः, तदुद्भूतो मनस्कार:=आभोगः, स [G.209] निंबन्धनमस्येति तथोक्तम् । अत एव नेतरेतराश्रयदोषः; विशिष्ट पदार्थसङ्केतनिबन्धनत्वादस्य. ज्ञानस्येति।
अतः कारणमात्रे साध्ये सिद्धसाध्यता, विशेषेण साधनेऽनुमानबाधा, अनन्वयदोषश्च पूर्ववदिति सूचयन् हेतोश्चेष्टविपरीतसाधनाद्विरुद्धतेति दर्शयति
निरंशैकस्वभावत्वात् पौर्वापर्यादयसम्भवः। तयोरिति दिक्कालयोः । परापरादिज्ञानस्य निरंशैकदिक्कालख्यपदार्थनिबन्धनत्वं साधयितुमिष्टम्, तच्च न सिध्यति । तथा हि-स्वाकारानुरूपं प्रत्ययमुत्पादयन् विषयो भवति। न च निरंशस्य पौर्वापर्यादिविभागः सम्भवति, येन तत्कृतं पौर्वापर्यादिज्ञानं भवेत्। अत इष्टविपरीतसाधनाद् विरुद्धो हेतुः।
सम्बन्धिभेदोच्चेदित्यनेन परस्योत्तरमाशङ्कते
__ तयोः सम्बन्धिभेदाच्चेदेवं तौ निष्फलौ ननु॥६२९॥ अथ मतम्- दिक्कालसम्बन्धिनो भावा बाह्याध्यात्मिकाः प्रदीपशरीरादयः, तेषां १-१. आकाशस्यैक०-गा०/ २. वृत्तित्वादुच्यते-गा।