________________
१८२
तत्वसंग्रह द० २.२.१२) इति । यत एते विशेषप्रत्ययाः । न च विशेषप्रत्यया आकस्मिका युक्ताः, न च परस्परं मूर्तद्रव्यव्यपेक्षाः, इतरेतराश्रयत्वेनोभयाभावप्रसङ्गात् । तस्मादन्यनिमित्तासम्भवाद्दिश एतानि लिङ्गानि। तस्याश्च दिशः कालवदेकत्वविभुत्वादयो गुणा बोद्धव्याः । एकत्वेऽपि दिशः कार्यविशेषात् प्राच्यादिभेदेन नानात्वम्। प्रयोग:-यदेतत् पूर्वापरादिज्ञानं 'तन्मूर्तद्रव्यव्यतिरिक्तद्रव्यपदार्थनिबन्धनम्, तत्प्रत्ययविलक्षणत्वात्, सुखादिज्ञानवदिति। मनसो लिङ्गमाह
क्रमेण ज्ञानजात्या च मनसोऽनुमितिर्मता ॥६२४॥ चक्षुरादिविभिन्नं च कारणं समपेक्षते।
क्रमेण जाता रूपादिप्रतिपत्ती रथादिवत्॥६२५॥ युगपदनेकेन्द्रियार्थसन्निकर्षसानिध्येऽपि क्रमेण ज्ञानोत्पत्तिदर्शनादस्तीन्द्रियार्थव्यतिरिक्तं कारणान्तरम्, यस्य सन्निधानासन्निधानाभ्यां ज्ञानस्योत्पत्त्यनुत्पत्ती भवत इति । तस्मात् क्रमेण ज्ञानजात्या ज्ञानोत्पत्त्या, मनसोऽनुमितिः क्रियते। तथा च सूत्रम्-'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' (न्या० द० १.१.१६) इति । प्रयोगः- येयं रूपादिप्रतिपत्तिः सा चक्षुरादिव्यतिरिक्तकारणापेक्षिणी, क्रमेण जायमानत्वात्, रथादिवदिति ॥ ६२४-६२५ ॥ उपात्तादीत्यादिना प्रतिविधत्ते
उपात्तादिमहाभूतहेतुत्वाङ्गीकृतेर्ध्वनेः ।
सिद्धा एवाश्रिताः शब्दास्तेष्वित्याद्यमसाधनम्॥६२६॥ यदि सामान्येनाश्रितत्वमात्रमेषां साध्यते शब्दानाम्, तदा सिद्धसाध्यता हेतोः। तथा हि- शब्दा उपात्तानुपात्तमहाभूतहेतुका इष्यन्ते। तेषु च भूतेषु तत्कार्यतया समाश्रिता एव; तत्प्रतिबद्धात्मलाभतया कार्याणां कारणाश्रितत्वात्। उपात्तानि-चित्तचैत्तैः स्वीकृतानि।आदिशब्देनानुपात्तमहाभूतहेतुकत्वपरिग्रहः । तेष्विति उपात्तादिमहाभूतेषु । इति तस्मादित्यर्थः । आद्यमिति 'समाश्रिताः क्वचिच्छब्दाः' (तत्त्व० ६२१) इत्यादिना यदुक्तम् तदसाधनम्। सिद्धसाध्यतादोषादिति भावः ।। ६२६ ॥
___ अथामूर्तनित्यैकविभुद्रव्यसमवेतत्वेनामीषामाश्रितत्वं विशिष्टमेव साधयितुमिष्टम्, तदा साध्यान्वितस्य दृष्टान्तस्याभावादनैकान्तिका हेतोरित्येतदर्शयति
एकव्यापिधुवव्योमसमवायस्तु सिध्यति। .
नैषामन्वयवैकल्याद् अक्रमाद्याप्तितस्तथा॥६२७॥ (G.208] नैषमिति । सिध्यतीति पूर्वेण सम्बन्धः । प्रतिज्ञायाश्चानुमानविरोधित्वमिति दर्शयतिअक्रमाद्याप्तितस्तथेति। यथोक्तं नभःसमवायित्वमेषां न सिध्यतीति सम्बन्धः । अपि शब्दा अभिमत एव काले स्युः; अविकलकारणत्वात्, एकाश्रयत्वाच्च । न च नित्यस्य परापेक्षास्तीति प्रतिपादितमेतत्। न चाप्यनुपकारिणः समवायित्वं युक्तम्; अतिप्रसङ्गात् । तदेवमक्रमत्वप्रसङ्गः। आदिशब्देन सर्वपुरुषैर्ग्रहणादिदोषप्रसङ्गश्च । तथा हि- आकाशात्मकमेव श्रोत्रम्, नभश्चैकमेव, . १. तन्मूर्तद्रव्यपदार्थ-- पा०: तन्मूर्तद्रव्य (भित्र) पदार्थल- गा० ।