________________
द्रव्यपदार्थपरीक्षा इदानीमाकाशकालदिङ्मनसां प्रतिषेधार्थमाह
समाश्रिताः कचिच्छब्दा विनाशित्वादिहेतुतः।
घटदीपादिवत् तच्च किल व्योम भविष्यति॥६२१॥ तत्राकाशाख्यं तावद् द्रव्यं परेण साध्यते- 'अस्याकाशाख्यं द्रव्यं नित्यमेकं भुवि शब्दलिङ्गम्, शब्दोऽस्य गुणत्वाल्लिङ्गम्। प्रयोगः- ये ये विनाशित्वोत्पत्तिमत्त्वादिधर्मोपेतास्ते क्वचिदाश्रिताः, यथा-घटदीपादयः, तथा चामी शब्दाः । तस्मात् क्वचिदाश्रितैरेभिर्भवितव्यम्, योऽसावाश्रयोऽमीषां स सामर्थ्याद् व्योम आकाशं भविष्यति। [G.206] तथा ह्ययंशब्दो न पृथिव्यादीनां चतुर्णां गुणो युक्तः; प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, अयावद्र्व्यभावित्वात्, आश्रयादन्यत्रोपलब्धेशच । यथोक्तधर्मविपरीता हि स्पर्शवतां गुणा दृष्टाः । प्रत्यक्षत्वे सतीति विशेषणं पाकजैः परमाणुगतैरनेकान्तत्वपरिहारार्थम् । बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादहङ्कारेण विभक्तग्रहणाच्च नात्मनो गुणः; आत्मगुणानां हि सुखादीनामेतद्वैपरीत्यदर्शनात्। श्रोत्रग्राह्यत्वाच्च न दिक्कालमनसाम्। अतः पारिशेष्याद् गुणो भूत्वाऽऽकाशस्य लिङ्गम्। तच्चाकाशं शब्दलिङ्गाविशेषाद् विशेषलिङ्गाभावादेकं सर्वत्रोपलभ्यमानगुणत्वात् = विभुगुणवत्त्वात्, अनाश्रितत्वाच्च द्रव्यम्।अकृतकत्वान्नित्यमित्येषा प्रक्रिया परेषाम्॥६२१ ॥ आदित्यादीत्यादिना कालसाधनमाह
आदित्यादिक्रियाद्रव्यव्यतिरेकनिबन्धनम् । परापरादिविज्ञानं घटादिप्रत्ययो यथा॥६२२॥ वलीपलितकार्कश्यगत्यादिप्रत्ययादिदम् ।
यतो विलक्षणं हेतुः स च कालः किलेष्यते॥६२३॥ द्रव्यंशब्देन 'वलिपलितादयो ग्रहीतव्याः। परः पिता, अपरः पुत्रः, युगपत्, चिरम्, क्षिप्रम्, क्रियते, कृतम्, करिष्यते चेति यदेतत् परापरादिज्ञानं तदादित्यादिक्रियाद्रव्यव्यतिरिक्तपदार्थनिबन्धनम्। वलिपलितादिप्रत्ययविलक्षणत्वात्, घटादिप्रत्ययवत्। यो हेतुरस्य स सामर्थ्यात् कालः । तथा हि-न तावद्देशकृतोऽयं परापरादिप्रत्ययः; परदिग्भागावस्थितेऽपि स्थविरे पर इति ज्ञानोत्पत्तेः । तथाऽपरदिग्भागावस्थायिन्यपि पुत्रे- अपर इति । नापि वलिपलितादिकृतः, तत्प्रत्ययविलक्षणत्वात्। नापि क्रियाकृतः, तज्ज्ञानविलक्षणत्वात्। नापि क्रियाकृतः, तज्ज्ञानविलक्षणत्वादेव। तथा च सूत्रम्-"अपरस्मिन् परं युगपदयुगपच्चिरं क्षिप्रमिति काललिङ्गानि" (वै० द० २.२.६) इति । नित्यत्वैकत्वादयो धर्मा आकाशवदेवास्य बोद्धव्याः ॥ ६२२-६२३॥ दिक्प्रसाधनार्थमाह
पूर्वापरादिबुद्धिभ्यो दिगेवमनुमीयते। [G.207] मूर्तं द्रव्यमवधिं कृत्वा द्रव्येषु तस्मादिदं पूर्वेण, दक्षिणेन, पश्चिमेन, उत्तरेण, पूर्वदक्षिणेन, दक्षिणापरेण, अपरोत्तरेण, उत्तरपूर्वेण, अधस्ताद, उपरिष्टाद्-इति दश प्रत्यया अमी यतो भवन्ति सा दिगिति । तथा च सूत्रम्- "इत इदमिति यतस्तद्दिशो लिङ्गम्" (वै० १. वली०- पा०, गा० । एवमुपर्यपि।
२. अपरं-पा०, गा०।