________________
१८०
तत्वसंग्रहे
युक्तम्; प्रत्यक्षत एवावयवेष्ववयविनो वृत्तिसिद्धेः । किम्भूतात् प्रत्यक्षात् ? इत्याह- इहेदमिति बुद्धित इति । इह तन्तुविदं वस्त्रादीत्येवम्भूतात् प्रत्यक्षादित्यर्थः
अथापि स्यात् — प्रत्यक्षत्वमस्या बुद्धेरसिद्धमिति ? यद्येवम्, किञ्चिदत्र बाधकं प्रमाणं वक्तव्यम्; यतोऽप्रत्यक्षता स्यात् । अथासत्यपि बाधके प्रमाणे प्रत्यक्षत्वमस्या न भवेद् ? एवं तर्हि रूपादिविज्ञानस्यापि भवदीयस्य प्रत्यक्षत्वं न भवेद्; विशेषाभावात् ॥ ६१३-६१७॥ तदत्रेत्यादिना प्रतिविधत्ते
तदत्र वृत्तिर्नास्तीति प्रागभेदेन साधितम् ।
इहेत्यस्ति न च ज्ञानं तद्रूपाप्रतिभासनात् ॥ ६१८ ॥
'तद्ध्येकवृत्तिभाजैव" (तत्त्व० ६०६ ) इत्यादिना प्राक् सामान्येनैवानेकस्मिन्नेकस्य वृत्तिपास्ता । यच्चेदमुच्यते - प्रत्यक्षत एव वृत्तिः सिद्धा - 'इहेदमिति बुद्धित:' (तत्त्व० ६१६) इति, तदप्यलौकिकम्; न हि 'इह शृङ्गे गौ: ', 'इह तन्तुषु पट:' इत्येव लोके विकल्पिकापि धीः प्रवर्त्तते, किं तर्हि ? [G.205] 'इह गवि शृङ्गम्', 'इह ९ पटे तन्तवः ' इति । नाप्यध्यक्षचेतसि तन्त्वादिसमवेतं तद्व्यतिरेकि वस्त्रादिरूपमाभासतें । न च विवेकेनाप्रतिभासमाने सतीदमिह वर्त्तत इति धीर्भवेत् । न हि कुण्डादौ विवेकेनाप्रतिभासमाने पयसि भवति सलिलमिहेति प्रत्ययः ।। ६१८ ॥
यच्चोक्तम् — “ न तु कात्स्न्यैकदेशाभ्यां वृत्तिः क्वचन लक्षिता” (तत्त्व० ६१४) इति तत्राह
कृत्स्नैकदेशशब्दाभ्यामयं चार्थः प्रकाश्यते ।
नैरंश्येनास्य किं वृत्तिः किं वा तस्यान्यथैव सा ॥ ६१९ ॥ यथा पात्रादिसंस्थस्य श्रीफलादेर्यथाऽथ वा । अनेकासनसंस्थस्य चैत्रादेरुपलक्षिता ॥ ६२० ॥
कृत्स्नशब्देन हि यादृशं स्वरूपमनंशम्, किं तथैव नैरंश्येन सर्वावयवेषु तस्य वृत्तिः, यथा क्वचिद्भाजनावस्थितस्य श्रीफलादेरुपलक्षितेत्ययमर्थः प्रकाशयते ? आहोस्विदन्यथा; यथाऽनेकपीठाधिशयितस्य चैत्रादेरुपलक्षितेत्ययमेकदेशशब्देन प्रकाश्यत इति ? यत् किञ्चिदेतत् ।
यदप्युद्द्योतकरेणोक्तम् — “एकस्मिन्नवयविनि कृत्स्नैकदेशशब्दप्रवृत्त्यसम्भवादयुक्तोऽयं प्रश्न :- - किमेकदेशेन वर्त्तेत, अथ कृत्स्नो वर्त्तेत इति । कृत्स्त्रमिति खल्वशेषाभिधानम्, एकदेश इति चानेकत्वे सति कस्यचिदभिधानम्, ताविमौ कृत्स्नैकदेशशब्दावेकस्मिन्नवयविन्यनुपपन्नौ " ( द्र० - न्या० वा० ४.२.१०-११ ) इति, तदप्यनेनैव प्रत्युक्तम् । तथा च लोके कृत्स्नः पदं' कुण्डे वर्त्तते, एकदेशेन वा - इत्येवं पदादिषु कृत्स्नैकदेशशब्दप्रवृत्तिर्दृश्यत एव । न चेयमुपचरितेति युक्तम्; अस्खलद्गतित्वादिति प्रागभिहितमेतत् ॥ ६१९-६२० ॥ एवं वायुपर्यन्तं चतुर्विधं द्रव्यमपास्तम् । आत्माख्यं तु प्रागेवात्मपरीक्षायां निरस्तम्।
१. पा० गा० पुस्तकयोर्नास्ति । ३. विवेकिनामप्रति० - पा०, गा० ।
२. ० प्रतिभासिते- पा०, गा० ।
४. च- पा०, गा० ।
५. पद:- पा०, गा०