________________
द्रव्यपदार्थपरीक्षा
१७९ तदाऽनवस्था स्यादेकशानाम् । तथा हि- यैरेकदेशैस्तद् द्रव्यमवयवेषु वर्त्तते तेऽपि तस्यैकदेशा इति तेष्वप्यनेन वर्तितव्यम्, तथैवापरेष्वित्यनिष्ठा।
__ अथापि स्याद्-यैरसावेकदेशैरवयवेषु वर्तते, ते तस्य स्वात्मभूता एव, नार्थान्तरभूताः, तद्व्यतिरेकेण 'वापरेषामेकदेशानामभावादतो नानिष्ठा भविष्यति? इत्याशझ्याह
नैको वा, न कचिच्च सः॥६१२॥ नैको वेति । एवं हि सत्येकोऽवयवी न स्यात्; अवयवप्रचयमात्ररूपत्वात्तस्य । तथा च सति दृष्टपाण्यादिसमुदायमात्रात्मक एवास्तां वस्तु, किमपरैस्तस्य स्वात्मभूतैरवयवैः परिकल्पितैः । दोषान्तरमप्याह-नक्वचिच्च सइति । वृत्तः स्यादिति शेषः । एतदुक्तं भवतियद्येकदेशाः प्रत्येकावयविनः स्युः, तदाऽवयवे ह्यवयवी वृत्तः स्यात्; यावता जैकदेशाः प्रत्येकमवयविनः, तेषामेकदेशत्वहानिप्रसङ्गात् । न चापरोऽवयवी स्वरूपेणास्ति, तत् कथमवयवेष्वसौ वृत्तो नाम!॥ ६१२॥ स्वातन्त्र्येणेत्यादिना शङ्करस्वामिनः परिहारमाशङ्कते
स्वातन्त्र्येण प्रसङ्गेन साधनं यत् प्रवर्तते। स्वयं तदुपलब्धौ हि सत्यं सङ्गच्छते न तु॥६१३॥ न तु' कात्स्न्यैकदेशाभ्यां वृत्तिः काचन लक्षिता। यस्या असम्भवाद् द्रव्यमसत् स्यादपरोऽपि वा ॥६१४॥ दृष्टौ वा कचिदेतस्या द्रव्यादावनिवारणम्। .यथा तस्मिन्नदृष्टौ तुभेदप्रश्नो न युज्यते॥६१५॥ एतावत्तु भवेद्वाच्यं वृत्तिर्नास्तीति तच्च न । युक्तं प्रत्यक्षतः सिद्धेरिहेदमिति बुद्धितः॥६१६॥ . प्रत्यक्षं न तदिष्टं चेद् बाधकं किञ्चिदुच्यताम्।
रूपादिचेतसोऽपि स्यान्नैव प्रत्यक्षताऽन्यथा॥६१७॥ [G.204] स ह्याह- "स्वातन्त्र्येण प्रसङ्गमुखेन वा यत् साधनं क्रियते तत् स्वयमुपलब्धौ सत्यां सङ्गच्छते, अन्यथा ह्यसिद्धता दोषः स्यात्; न च भवता क्वचिदप्येकस्यानेकस्मिन् कात्स्न्यैकदेशाभ्यां वृत्तिरुपलब्धा, यस्या वृत्तेरसम्भवादवयविद्रव्यमसत् स्यात्। सति सम्भवेऽपरोऽपि वा भवेदवयवोऽवयवी च"। क्वचित्तु 'यस्यामसम्भवात्' इति पाठः, तत्रायमभिसम्बन्धः- 'यस्यां वृतौ असम्भवाच्च यस्या वृत्तेर्यथायोगं द्रव्यमसत् स्यात्; अपरोऽपि वा भवेदवयवः, अवयवी च' इति । अथ क्वचिदेवम्भूता वृत्तिरुपलक्षिता भवेत्, तदा तद्वदेव द्रव्यादावपि सा भविष्यतीत्यप्रतिषेधः।
अथ न दृष्टा सा वृत्तिः, तदा किमेकदेशेन? आहोस्वित्, सर्वात्मना? इत्येवं भेदप्रश्नो न युज्यते। सिद्ध हि धर्मिणि विशेषप्रतिषेधो युक्तः, यदा तु धर्म्यवासिद्धः, तदा तस्यैव प्रतिषेधो ज्यायान्। तेनैतावदेव वक्तव्यम्-वृत्तिरेव नास्तीति, न तु विशेषप्रतिषेधः । तच्च न १. चाल-पा०, गा०। २. च-पा०, गा०।।
३. च-पा०, गा०। ४. अथ-पा० गा०/ ५. भेदे प्रश्रो०, पा०. गा।
६-६. पाठोऽयं पा०, गा. पुस्तकयो स्ति।
. च-पा०, गा०/.
.