SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १७८ तत्वसंग्रहे अन्यथा हि यद्यन्यत्रापि वर्तेत; तदाऽत्राभिमते द्रव्ये तस्य वृत्तिः सर्वात्मना न भवेत्। न हि तस्यापरः स्वभावोऽस्ति, येनान्यत्रापि वर्तेत; एकत्वहानिप्रसङ्गात् ॥ ६०६-६०७॥ प्रमाणं रचयन्नाह नैव धात्र्यन्तरकोडमध्यास्ते हि यथा शिशुः। एकक्रोडीकृतं द्रव्यं नाश्रयेत तथाऽपरम्॥६०८॥ प्रयोगः–यदेकवस्तुक्रोडीकृतं वस्तु न तत् तदानीमेवान्यत्र वर्त्तते, यथा-एकधात्रीक्रोडीकृतः शिशुर्न धात्र्यन्तरक्रोडमध्यास्ते। एकावयवक्रोडीकृतं च द्रव्यमिति व्यापकविरुद्धोपलब्धिः । द्रव्यं नाश्रयेत तथापरमिति प्रमाणफलकथनम्॥६०८॥ साध्यविपर्ययेऽस्य बाधकं प्रमाणमाह- ... तत्सम्बद्धस्वभावस्य ह्यतद्देशेऽपि वृत्तितः। प्राप्तं तदेकदेशत्वमैकाम्यं चाविभागतः॥६०९॥. अनेनैवात्मना' वृत्तौ नैकोऽनेकव्यवस्थितः। - . सिध्येत् स्वभावभेदस्य वस्तुभेदात्मकत्वतः॥६१०॥ अभिमतावयवसम्बद्धस्वभावस्य हि द्रव्यस्यातद्देशेऽप्यवयवान्तरे यदि वृत्तिः स्यात् तदा तेषामवयवानामेकदेशता स्यात्, ततश्चैकात्म्यम् एकस्वभावताऽवयवानां प्राप्ता । कस्मात् अविभागत:=अविभक्तरूपतयाऽवस्थितत्वात्। अन्यथा हि विभक्तरूपावस्थितौ सत्य नैकदेशत्वं भवेत्। अन्थान्येन स्वभावेनेति द्वितीयः पक्षः, तदैकाऽनेकव्यवस्थित इति । सिध्येत्; स्वभावान्तरस्यान्यत्र वृत्तेः, स्वभावभेदात्मकत्वाच्च वस्तुभेदस्य ॥६०९-६१०॥ . उड्योतकरस्त्वाह- "आश्रयाश्रितधर्मनिर्देशमात्रमेतत्, अवयव्यवयवेषु प्रवर्तत इति आश्रितभावलक्षणा हि समवायरूपा प्राप्तिरुच्यते" ( ) इति, तत्राह समवायात्मिका वृत्तिस्तस्य तेष्विति चेन्नन्। .. तस्यामपि विचारोऽयं कोपेनैव प्रधावति॥६११॥ [G.203] तस्यामप्येवंरूपायां वृत्तावयमनन्तरोदित:- किमेकावयवसमवेतेनैव स्वभावेना वयवान्तरेषु वर्त्तते,.अथान्येन-इति विचारः कुमतिरचितदोषजालमसहमानकोपादिवा भिधावति॥६११॥ __ एवं तावत् कृत्स्नैकदेशविकल्पमकृत्वा वृत्तिरपास्ता। सम्प्रत्युपादाय प्रज्ञप्तिविहिते प्रकारेण वृत्तिनिषेधमाह यद्वा सर्वात्मना वृत्तावनेकत्वं प्रसज्यते। ' एकदेशेन चानिष्टा कदाचित्तद् द्रव्यं प्रत्येकमवयवेषु सर्वात्मना वर्त्तते? एकदेशेन वा? यदि सर्वात्मन तदा यावन्तोऽवयवास्तावन्तस्तस्यात्मानः प्राप्नुवन्ति, न हि प्रत्यवयवंतस्थ स्वभावाभेदेऽसति सर्वात्मना वृत्तिरस्ति; असंविद्यमानेनात्मना वृत्त्यसम्भवात् । ततश्च सर्वात्मना वृत्तेर्युगपदनेक कुण्डादिव्यवस्थितकुवलादिवद्' अनेकत्वमवयविनः प्राप्नोति। अथैकदेशेनेति पक्षः १. अन्येनैवाल-पा०, गा०। २. कुवलयादि- पा०, गा०। कुवल:-कुमुदः।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy