________________
द्रव्यपदार्थपरीक्षा
१७७ तस्यानुपलम्भात् । न चाश्रयोपलम्भादन्यसंयोगग्रहणाभ्युपायोऽस्ति । तस्मात्रैकरूपो [G.201] विषयो युक्तः। अनेकरूपोऽपि भवनसामर्थ्यादणुसञ्चयात्मक एवावतिष्ठते'; सम्भवदवयवस्यैकत्वायोगात्। अत: सिद्धा घटादीनामणुरूपता। तेन नीलादि परमाणूनामाकार इति सिद्धम्; अन्यस्यैकरूपस्य विषयस्यासम्भवात् ॥ ६००-६०१॥ यच्चोक्तम्- "न चाणुवचनं भवेत्" (तत्त्व० ५६१) इति तत्राह
अविज्ञातार्थतत्त्वस्तु पिण्डमेकं च मन्यते।
लोकस्तत्कल्पितापेक्षः परमाणुरिहोच्यते॥६०२॥ तत्कल्पितापेक्ष इति । तस्मिन् कल्पिते सूत्रे अपेक्षा यस्येति विग्रहः ॥ ६०२ ॥ परिहारान्तरमाह
निमित्तनिरपेक्षा वा संज्ञेयं तादृशी स्थिता।
संकेतान्वयिनी यद्वनिर्वित्तेऽपीश्वरश्रुतिः॥६०३॥ तादृशीति। अनंशे, अप्रतिघे। यथा दरिद्रेऽपीश्वर श्रुतिः सङ्केतवशादैश्वर्याख्यं निमित्तमन्तरेणैव प्रवर्तते, तद्वदियमप्यणुश्रुतिरित्यदोषः ॥६०३ ॥ .
एवं तावत् सामान्येनैव अवयवैरारब्धमनारब्धं वा स्थूलमेकं द्रव्यं न युज्यते' इति । प्रतिपादितम्। इदानीं येनावयवी प्रारब्ध इष्यते, तस्य विशेषेण दूषणमाह
एकावयव्यनुगता नैव तन्तुकरादयः। अनेकत्वाद् यथा सिद्धाः कटकुट्यकुटादयः॥६०४॥ यदि वाभिमतं द्रव्यं नानेकावयवाश्रितम्। .: एकत्वादणुवद् वृत्तेरयुक्तिर्बाधिका प्रमा॥६०५॥ प्रयोगः-यदनेकं न तदेकद्रव्यानुगतम्, यथा-कटकुट्यादयो बहवो नैकद्रव्यानुगताः । अनेके चामी तन्तुकरादय इति व्यापकविरुद्धोपलब्धेः । अथ वा- यदेकं तदेकद्रव्याश्रितम्, यथैकः परमाणुः । एकं चावयविसंज्ञितं द्रव्यमिति व्यापकविरुद्धोपलिब्धप्रसङ्गः। प्रसङ्गसाधनं चैतत्।.
. . ' .प्रयोगद्वयेऽपि विपर्यये बाधकं प्रमाणमाह- वृत्तेरयुक्तिर्बाधिका प्रमेति। अवयवेषु याऽवयविनो वृत्तिः, तस्या अयोग:=प्रमाणैरघटनम्, तदत्र बाधकं प्रमाणम्॥६०४-६०५॥ कथं पुनरयोगः? इत्याह
तद्धयेकवृत्तिभाजैव रूपेणावयवान्तरे। वर्तेत यदि वाऽन्येन न प्रकारान्तरं यतः॥६०६॥ तत्र तेनैव नान्यत्र वृत्तिरस्यावकल्पते।
तेन क्रोडीकृतत्वेन नान्यथा तत्र वृत्तिमत्॥६०७॥ तदेकं द्रव्यमेकावयवक्रोडीकृतं यत्तस्य रूपं तेनैवावयवान्तरेषु वर्त्तते, यद्वा [G.202] अन्येन- इति पक्षद्वयम्, न हि वस्तुतस्तत्त्वान्यत्वाभ्यामन्यत् प्रकारान्तरमस्ति । तत्र न तावदाद्यः पक्षः, तेनैवावयवेन तस्य क्रोडीकृत्वात् कुतोऽवयवान्तरे वर्तितुमस्यावसरस्तदानीमेव स्यात्। १. वभिधते- पा०, गा०।