________________
१७६
तत्वसंग्रहे ननु चाव्याप्यवृत्तित्वात् संयोगस्य न रक्तता।
सर्वस्यासज्यते नापि सर्वमावृतमीक्ष्यते॥५९९॥ __स ह्याह- "राग उच्यते वाससः कषायकुङ्कमादिद्रव्येण संयोगः। संयोगश्चाव्याप्यवृत्तिः, ततो न रक्त एकस्मिन् सर्वस्य रागो भवति। न चवस्त्रादिभिः शरीरैकदेशस्यावरणे सर्वस्यावरणम्" ( ) इति ॥ ५९९ ॥ तदेतदयुक्तमित्यादर्शयति
ननु चानंशके द्रव्ये किमव्याप्तं व्यवस्थितम्। स्वरूपं तदवस्थाने भेदः सिद्धोऽत एव वा॥६००॥ बहुदेशस्थितिस्तेन नैवैकस्मिन् कृतास्पदा।
ततः सिद्धा पटादीनामणुभ्योऽनेकरूपता॥६०१॥ [G.200] यदि हि पटादिरेकमेव द्रव्यम्, तदा किं तत्र निरंशके द्रव्ये कषायादिभिरव्याप्तम्, येनाव्याप्यवृत्तिः संयोग: स्यात् ! अथाव्याप्तस्वरूपस्यावस्थानमङ्गीक्रियते, तदा तदवस्थाने भेदोऽतएव सिद्धः; व्याप्ताव्याप्तयोर्विरोधेनैकस्वभावत्वायोगात्। न चैकस्य पृथुतरदेशावस्थानं युक्तम्, अनंशत्वात्; अन्यथा हि सर्वेषामेवोदकजन्तुहस्त्यादीनामेकत्वेनाविशेषात् स्थूलसूक्ष्मादिभेदो न प्राप्नोति । अल्पबहुतरावयवारम्भानारम्भादिकृतो विशेष इति चेत् ? अवयवा एव तहल्पबहुतरास्तथातथोत्पद्यमानाः स्थूलसूक्ष्मादिव्यवस्थानिबन्धनं सन्तु, किं तदारब्धेनावयविना; तस्यादृष्टसामर्थ्यात्। न च सत्यप्यवयवाल्पबहुत्वेऽवयविनां निरंशतया परस्परं कश्चिद्विशेषोऽस्ति, येन स्थूलसूक्ष्मादिभेदो भवेत्, तेषामवयवाल्पबहुत्वग्रहणकृते विशेषेऽवयवमात्रमेवाभ्युपगतं स्यात्, तत्रैव स्थूलादिव्यहारात्, ततश्चाणुमात्रमेव दृश्यत्वेनाभ्युपेतं स्यात्; स्थूल-सूक्ष्मव्यतिरेकान्यस्यादृश्यमानत्वात्।
अपि चाव्याप्तवृत्तिः संयोग इति कोऽर्थः? यदि सर्वं द्रव्यं न व्याप्रोतीत्यर्थः? तदयुक्तम्; द्रव्यस्य सर्वशब्दाविषयत्वाभ्युपगमात् । अथाश्रयस्यैकदेशे वर्त्तत इति? तदप्ययुक्तम्; तस्यैकदेशासम्भवात् । तदारम्भकेऽवयवे वर्त्तत इंति चेत् ? यद्येवम्, अवयवानामेव रक्तत्वादवयविरूपमरक्तमिति रक्तारक्तं समं दृश्येत।
किञ्च-योऽप्यसौ तदारम्भकोऽवयवः स यद्यवयविरूपः, तदा तत्राप्येकदेशवृत्तित्वं संयोगस्येति तुल्यः पर्यनुयोगः । अथाणुरूपः? तदाऽतीन्द्रियत्वादणूनां तदाश्रितोऽपि संयोगोऽतीन्द्रिय एवेति रक्तोपलम्भो न स्यात्।।
स्यान्मतम्-यथा व्याप्तिरङ्गलिरूपस्याश्रयोपलब्धावेवोपलब्धिरुच्यते, नैवं संयोगस्याश्रयोपलब्धावेवोपलब्धिरिति, ततोऽसावव्याप्यवृत्तिरुच्यत इति? तदेतदसम्यक्; न हि संयोगस्याश्रयानुपलब्धावुपलब्धिरस्ति, यथा-घटपिशाचसंयोगस्य, ततश्च रागस्याप्यदृष्टाश्रयस्यानुपलब्धेराश्रयोपलब्धावेवोपलब्धिरिति सोऽप्येवं व्याप्यवृत्तिर्भवेत्।
स्यादेतत्-अवयवान्तरेष्वरक्तेषु समवेतस्य द्रव्यस्योपलब्धावपि न संयोगात्मकस्य रागस्योपलब्धिः, तेन नास्याश्रयोपलब्धावुपलब्धिरिति? तदप्ययुक्तम्; एवं हि रक्तारक्तसमवेतस्यावयविन एकत्वाद्रक्तेऽप्यवयवे रागस्य तद्द्वारेणानुपलब्धिप्रसङ्गः; आश्रयोपलम्भेऽपि