________________
द्रव्यपदार्थपरीक्षा
१७५ तथा हि-सर्वशब्दोऽनेकार्थविषयः,न चावयवी नानात्मेति, तत् कथं सर्वशब्दप्रयोगो येनोच्यते-सर्वं पिहितमासज्यत इति ॥ ५९४ ॥ नन्क्त्यिादिना प्रतिविधत्ते
ननु ये लोकतः सिद्धा वासोदेहनगादय:। त एवावयवित्वेन भवद्भिरुपवर्णिताः॥५९५॥ रक्तं वासोऽखिलं सर्वं निःशेषं निखिलं तथा। तत्रेच्छामात्रसम्भूतमिति सर्वे प्रयुञ्जते॥५९६ ॥ तथाविधविवक्षायामस्माभिरपि वर्ण्यते। सर्वं स्याद् रक्तमित्यादि निर्निनबन्धा हि वाचकाः ॥५९७॥
भाक्तं तदभिधानं चेद् , य एव हि लोक वासोदेहप्रभृतयः प्रसिद्धा त एव भवद्भिरवयवित्वेनावकल्पिताः। तत्र च लोके सर्वैकदेशशब्दयोः प्रवृत्तिः प्रसिद्धैव। तथा च वक्तारो भवन्ति-सर्वं [G.199] वासो रक्तमित्यादेः। तथाविधायां च विवक्षायां येयं लोके पृथुतरदेशावक्रान्तिव्यवस्थितशाटकादिपदार्थगतरक्तादिप्रतिपादनेच्छा, तस्यां सत्यामस्माभिरपि प्रतीतिमनुसृत्य भवतो विरोधप्रतिपादनाय सर्वादिशब्दप्रयोगः क्रियते। अपि च-भवत एवायं स्थूलस्यैकत्वमभ्युपगच्छतो दोषः, नास्माकम्; न ह्यस्माभिः स्थूलस्यैकत्वमिष्यते ॥५९५-५९७॥
स्यादेतत्, ममाप्यदोष एव; यस्माद्भाक्तमुपचरितमेतत्तन्त्वादिष्ववयवेषु तत्कारणतया पटाद्यभिधानम्, तेन सर्वादिशब्दप्रयोगो भविष्यतीति?
__वचोभेदः प्रसज्यते। यद्येवम्, वचोंभेद:-बहुवचनम्, सर्वदैव प्रसज्यते-सर्वाणि वासांसि रक्तानीति । न च भवन्तो बहुष्वेकवचनमिच्छन्ति।
अथापि स्याद्-अवयविगतां संख्यामादायावयवेषु वस्त्रादिशब्दोऽपरित्यक्तात्माभिधेयगतालिङ्गसंख्य एव वर्तते इति? तदप्ययुक्तमिति दर्शयन्नाह
न च बुद्धेर्विभेदोऽस्ति गौणमुख्यतयेष्टयोः॥५९८॥ यदि हि भाक्तोऽयं व्यपदेशः स्यात, तदा गौणमुख्यार्थविषयाया बुद्धेर्विभेदो वैलक्षण्यं स्खलद्गतित्वेन प्राप्तीति, न च भेदोऽस्ति । तथा हि- 'सर्वं वासो रक्तम्' इत्यत्र नैवं बुद्धि: प्रवर्तते- 'न च वस्त्रं रक्तं किन्तु तत्कारणभूतास्तन्तवो रक्ताः' इति । चकारान्न च सर्वशब्दवाच्यं वासो युष्माभिरिष्यते, तस्यैकत्वात् तत् कथं तत्सङ्ख्यामादाय सर्वशब्दो वस्त्रादिशब्दरहितोऽवयवेषु वर्त्तते!
अथ वा- बुद्धर्भेद: नानात्वम्, सोऽस्मिन् गौणमुख्यत्वेनेष्टयोर्न विद्यते। न हि तन्तुवस्त्रयोभिन्नं रूपं समुपलभ्यते रूपरसादिवत्, न चानुपलब्धभिन्नरूपयोhणमुख्यभावः सम्भवति ॥ ५९८ ॥
ननु चेत्यादिना शङ्करस्वामिनः परिहारमाशङ्कते१. वास:- वस्त्रम्, देह:- शरीरम्, नगः- पर्वत इत्यादयः- इत्यर्थः ।