________________
१७४
तत्वसंग्रहे यद्येवम्, भेदेनानुपलक्ष्यमाणः कथमणवः प्रत्यक्षाः सिध्यन्ति? इत्याह
विवेकालक्षणात् तेषां नो चेत् प्रत्यक्षतेष्यते।
दीपादौ सा कथं दृष्टा किं वेष्टोऽवयवी तथा ॥५८९॥ यदि हि विवेकेनानवधार्यमाणं न प्रत्यक्षमिष्यते, तदा दीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणे सा प्रत्यक्षता कथं दृष्टा! अवयवी वाऽवयवविवेकेनागृह्यमाणोऽपि किं तथा प्रत्यक्षत्वेनेष्ट इत्यनैकान्तिकमेतत् ॥ ५८९ ॥ एतावदित्यादिना परं चोदयितुं शिक्षयति
एतावत्तु भवेदत्र कथमेषामनिश्चये।
नीलादिपरमाणूनामाकार इति गम्यते ॥५९०॥ एषामिति परमाणूनाम् ॥ ५९०॥
तदप्यकारणं यस्मान्नैव ज्ञानमगोचरम्।
न चैकस्थूलविषयं स्थौल्यैकत्वविरोधतः ॥५९१॥ . . परमाणूनां विवेकेनालक्षणं यत्, तदकारणम्; परमाणुगतनीलांद्यग्रहणस्यान्यतोऽपि निश्चयोत्पत्तेः । तथा हि-इदं ज्ञानमविषयं तावद् बहिरर्थवादिना सता नैवेष्टव्यम्, अन्यथा . हि विज्ञानमात्रतादर्शनमेव स्यात्। स चायं रूपादिविषयः स्थूलरूपतयावभासमान एको वा स्याद्, अनेको वा; एकोऽपि भवन्नारब्धो वा। तत्र न तावदुभयात्माऽप्ययमेकों युक्तः; प्रत्यक्षादिविरोधात् ॥ ५९१॥ [G.198] कोऽसौ विरोधः? इत्याह
स्थूलस्यैकस्वभावत्वे मक्षिकापदमात्रतः। पिधाने पिहितं. सर्वमासज्येताविभागतः॥५९२॥ रक्ते च भाग एकस्मिन् सर्वं रज्येत रक्तवत्।
विरुद्धधर्मभावे वा नानात्वमनुषज्यते ॥५९३॥ . यदि हि स्थूलमेकं स्यात्, तदैकदेशपिधाने सर्वस्य पिधानम्, एकदेशरागे च सर्वस्य रागः प्रसज्येत; पिहितापिहितयो रक्तारक्तयोश्च भवन्मतेनाभेदात्। न चैकस्य परस्परविरुद्धधर्माध्यासो युक्तः; अतिप्रसङ्गात्। एवं हि विश्वमेकं द्रव्यं स्यात्, तत्तश्च सहोत्पादादिप्रसङ्गः। न त्वेकदेशपिधाने सर्वं पिहितमीक्ष्यत इति प्रत्यक्षविरोधः । तथानुमानविरोधोऽपि । तथा हि-यत् परस्परविरुद्धधर्माध्यासितं न तदेकं भवति, यथा-गोमहिषम्। उपलभ्यमानानुपलभ्यमानरूपं पिहितादिरूपेण च विरुद्धधर्माध्यासितं स्थूलमिति व्यापकविरुद्धोपलब्धिः । सर्वस्यैकत्वप्रसङ्गो बाधकं प्रमाणम् ॥ ५९२-५९३॥
उद्दयोतकरस्त्वाह-"एकस्मिन् भेदाभावात् सर्वशब्दप्रयोगानुपपत्तिः" ( ) इति, तदेतत् ननु चेत्यादिना शङ्कते
ननु चैकस्वभावत्वात् सर्वशब्दोऽत्र किङ्कतः।
सानेकार्थविषयो नानात्मावयवी न च ॥५९४॥ १. कथमेषां न निश्चये-पा०, गा० ।
२. चैक०-पा०, गा०।