________________
१७३
रम्भकत्वात् । न चापि परमाणुभ्योऽवयवविभेदे संयोगो दृश्य उपपद्यते; अदृष्टाश्रयत्वात् । यत्र ह्येकोऽपि संयोगो न दृश्यते । यथा - पिशाचघटसंयोगः, सूर्यमण्डलाकाशदिग्देशसंयोगश्च । यत्र पुनः सर्व एव संयोगी परमाण्वात्मको न दृश्यते, तत्र कथं संयोगस्तदाश्रितो दृश्यः स्यात्! ॥ ५८५ ॥
यद्येवम्, सर्वप्रकारेणानिश्चये सति कथं नाम प्रत्यक्षता तेषां युक्तिमती ? इत्याहसर्वेषामेव वस्तूनां सर्वव्यावृत्तिरूपिणाम् ।
दृष्टावपि तथैवेति न सर्वाकारनिश्चयः ॥ ५८६ ॥
न ह्यपरदर्शनानां क्वचिदपि वस्तुनि प्रत्यक्षेण गृहीतेऽपि सर्वाकारनिश्चयोऽस्ति । यावता तु रूपेणार्थान्तरव्यावृत्तिकृतेन न निश्चीयते, तावता तत् प्रत्यक्षमिति व्यवस्थाप्येत । न सर्वाकारेण; गृहीतस्यापि प्रकारान्तरस्य निश्चयानुत्पत्तेर्व्यवहारायोग्यत्वेनागृहीतकल्पत्वात् । तथैवेति यथा तद्वस्त्वनुभूतम् ॥ ५८६ ॥
ननु च निरंशतया सर्वात्मनैव प्रत्यक्षेणानुभूतत्वाद्वस्तुनः कस्मात् सर्वात्मना निश्चयो न भवति ? इत्याह
द्रव्यपदार्थपरीक्षा
अकल्पनाक्षगम्येऽपि निरंशऽर्थस्वलक्षणे ।
यद्भेदव्यवसायेऽस्ति कारणं स प्रतीयते ॥ ५८७ ॥
अक्षे भवमाक्षम्, इन्द्रियज्ञानमित्यर्थः । अकल्पनमविद्यमानकल्पनं च तदाक्षं चेति विग्रहः । तेन गम्येऽपि निर्विकल्पेन्द्रियज्ञानगम्येऽपीत्यर्थः । यद्भेदव्यवसाय इति । यस्माद् भेदः = व्यावृत्तिर्यद्भेदः, तत्र व्यवसाय: = निश्चयः, तस्य कारणमभ्यासः = प्रत्यासत्तिः, तारतम्यबुद्धिपाटवं चेत्यादि। न ह्यनुभावमात्रमेव निश्चयकारणम्, किन्त्वभ्यासादयोऽपि । तेन यत्र ते सन्ति तत्र निश्चयः प्रसूयत इत्यर्थः । एतच्च सर्वं परमाणूनां सिद्धिं बाह्यस्य चार्थस्य प्रत्यक्षत्वसिद्धिमभ्युपगम्योक्तम्।
यस्य तु विज्ञानवादिनोन बाह्योऽर्थो नीलादिरूपतया प्रत्यक्षसिद्धः, स्वप्नादौ विनापि बाह्यमर्थं तथाविधनीलादिप्रतिभासोपलम्भेन [G. 197] संशयात्, तस्य च नीलादिरूप - स्यैकानेकस्वभावशून्यत्वेन भ्रान्तज्ञानप्रतिभासात्मकत्वात् नापि परमाणवः सिद्धाः, तेषां पौर्वापर्यावस्थायितया दिग्भागभेदिनामेकत्वासिद्धेस्तं प्रति कथं नीलादिरूपतया परमाणूनां पौर्वापर्यस्य वानुपलक्षणम्, भ्रान्तिनिमित्तेनार्थान्तरसमारोपादिति शक्यं वक्तुम् ॥ ५८७ ॥ स्यादेतद्यद्यवयवी न स्यात्, तदा कथं बहुषु परमाणुष्वेकः पर्वतः - इति व्यवसायो व्यापृताक्षस्य भवति ? इत्याह
-
समानज्वालासम्भूतेर्यथा दीपैकविभ्रमः ।
नैरन्तर्यस्थितानेकसूक्ष्मवित्तौ तथैकधा ॥ ५८८ ॥
यथा हि-दीपादौ नैरन्तर्येण सदृशापरापरज्वालापदार्थसम्भवात् सत्यपि भेद एकत्वविभ्रमो भवति, तथा नैरन्तर्येणानेकसूक्ष्मतरपदार्थसंवेदनतोऽयमेकत्वविभ्रम इत्यदोषः
॥ ५८८ ॥
१. परमाणुशोध्यति पा०, गा० ।
२. ०ऽर्थस्य लक्षणे- पा०, गा० ।
३. दीपेन विभ्रम-- पा०, गा० ।