________________
१७२
तत्वसंग्रहे शीतापनोदनाघेकार्थक्रियासमर्था भवन्ति, नापरे ये योषित्कर्तृकाः । तत्रैकार्थक्रियोपयोगिनस्तन्तून विशिष्टान् प्रतिपादयितुम् ‘पट:' इत्येका श्रुतिर्विनिवेश्यते व्यवहर्तृभिरसाङ्कर्येण व्यवहारायासत्यप्यर्थान्तरत्वे। कस्मात् पुनरेका श्रुतिर्विनिवेश्यते? इत्याह
पृथक् श्रुतौ। गौरवाशक्तिवैफल्यदोषत्यागाभिवाञ्छया ॥५८०॥ साकल्येनाभिधानेन व्यवहारस्य लाघवम्।.. मन्यमानैः कृता येषु वागेका व्यवहर्तृभिः॥५८१॥ तेभ्यः समानकालस्तु पटो नैव प्रसिध्यति।
विभिन्नकर्तृसामर्थ्यपरिमाणादिधर्मवान् ॥५८२॥ __ पृथक्पृथक्-प्रत्येकं श्रुतौ अभिधाने सति गौरवदोषः । तथा हि-तत्र यावन्तः पदार्था विवक्षितैककार्यसाधनयोग्यास्तावन्त एव शब्दाः प्रयोक्तव्या इति गौरवदोषः। न चाप्येषामसाधारणं रूपं शक्यं निर्देष्टमित्यशक्तिदोषः। उत्प्रेक्षितसामान्याकारेण च निर्देशे वरमेकयैव श्रुत्या प्रतिपादनम्, न चास्य पृथक्पृक्प्रतिपादनप्रयासस्य किञ्चित् फलमुपलभ्यत इति वैफल्यदोषः। सामस्त्येन त्वभिधाने कृते सति व्यवहारलाघवं गुणः। समस्तवस्तुविवक्षायां जगत्रिभुवनविश्वादिशब्दवदेका वागिति। पट इत्येवं वचनमित्यर्थः । कर्ता च सामर्थ्यपरिमाणादि धर्मश्चेति तौ तथोक्तौ, ततो विभिन्नशब्देन विशेषणसमासं कृत्वा मतुप् कार्यः ॥५८०-५८२॥ यच्चोक्तम्-"स्थूलार्थासम्भवे" (तत्त्व०५६१) इत्यादि, तत्राह
अन्योऽन्याभिसराश्चैवं ये जाताः परमाणवः।
नैवातीन्द्रियता तेषामक्षाणां गोचरत्वतः ॥५८३॥ असिद्धमणूनामतीन्द्रियत्वम्; विशिष्टवस्थाप्राप्तानामिन्द्रियग्राह्यत्वात् । यस्य हि नित्याः परमाणवः' इति पक्षः, तं प्रत्यणूना विशेषाभावात् सर्वदेवातीन्द्रियत्वं स्यात्, नास्मान् प्रति। अन्योन्याभिसरा इति। अन्योन्यसहाया इत्यर्थः ॥ ५८३॥
नीलादिः परमाणूनामाकारः कल्पितो निजः।
नीलादिप्रतिभासा च वेद्यते चक्षुरादिधीः ॥५८४॥ नीलादिरित्यादिना तदेवाक्षगोचरत्वं दर्शयति ॥ ५८४॥
ननु च पौर्वापर्यादिदिग्भेदेन परमाणवोऽवस्थिता इष्यन्तें, न च तेन रूपेणोपलक्ष्यन्ते, तत्कथमेषां प्रत्यक्षता? इत्याह
पौर्वापर्यविवेकेन यद्यप्येषामलक्षणम्। .
तथाप्यध्यक्षताऽबाधा पानकादाविव स्थिता ॥५८५॥ [G.196] अध्यक्षताया अबाधा अध्यक्षताऽबाधेति समासः । असमस्तं वैतत्-अविद्यमानबाधत्वादबाधा। पानकादिष्विवाध्यक्षताऽवस्थितेत्यर्थः । तथा हि-पानके तप्तोपले सूतहेमादौ च मिश्रे परमाणव एव तथोपलभ्यन्ते। न हि तत्रावयवि द्रव्यमस्ति; विजातीयानां द्रव्या