________________
द्रव्यपदार्थपरीक्षा
१७१ सर्वेषामेव ह्यत्तरोत्तरधर्मसमावेशाद्धर्मित्वं स्यात्, ततश्च "षडेते धर्मिण एव प्रोक्ताः" (तत्त्व० ५७३) इत्येतत्रोपपद्यते; षट्पदार्थव्यतिरेकेणान्येषामपि धर्मिणां विद्यमानत्वादिति भावः।
अथापिं स्यात्-'ये धर्मिरूपा एव त एव षट्त्वेनावधारिताः' इति? एतदप्यसारम्; एवं हि गुणकर्मसामान्यविशेषसमवायानामनिर्देशः स्यात्। न ह्येषां धर्मिरूपत्वमेव, किं तर्हि ? धर्मरूपत्वमपि; द्रव्याश्रिततत्वादेषाम्। अस्मादेवेति अन्यधर्मसमावेशात्।
अन्यः पुनराह-"षण्णामस्तित्वं हि सदुपलम्भकप्रमाणगम्यत्वम्, गम्यत्वं च षट्पदार्थविषयं [G.194] विज्ञानम्; तस्मिन् सति सद्व्यवहारप्रवर्त्तनात्। तथा ज्ञानजनितं ज्ञेयत्वम्, अभिधानजनितमभिधेयत्वमिति। अतो व्यतिरेकनिबन्धना षष्ठी भवत्येव। न चाप्यनवस्था, नापि षट्पदार्थान्तरप्रसङ्गः" इति। तस्यापीदं कल्पनामात्रमेव। यदि ह्यर्थक्रियासमर्थपदार्थात्मकमात्मतत्त्वं षण्णां पदार्थानां न स्यात्, तदा तेषां गगनाम्भोरुहतैव स्यात्; अर्थक्रियास्वशक्तत्वात्। ततश्च सदुपलम्भकप्रमाणगम्या न स्युः।
अथ तथाभूतकमात्मतत्त्वमेषामस्त्येव, यदा तेऽर्थक्रियासमर्थाः पदार्था एव भेदान्तरप्रतिक्षेपमात्रजिज्ञासायां तेषामस्तित्वमित्येवं यदि व्यतिरेकविभक्त्या व्यपदिश्येरैस्तदा को विरोधः? तदव्यतिरिक्तमपि हि स्वरूपं बुद्ध्या ततोऽवकृष्य व्यतिरिक्तमिवाभिधीयमानमविरोध्येव, वाचामिच्छामात्रवृत्तित्वादुत्पाद्यकथोपरचितेषु बाहुल्यसौन्दर्यादिधर्मपरिकल्पनवदिति यत्किञ्चिदेतत् ॥ ५७७॥ , "विभिन्नकर्तृशक्त्यादेः" (तत्त्व० ५६०) इत्यादावाह
प्रथमेभ्यश्च तन्तुभ्यः पटस्य यदि साध्यते। भेदः साधनवैफल्यं दुर्निवारं तदा भवेत् ॥५७८॥ • प्राप्तावस्थाविशेषा हि ये जातास्तन्तवोऽपरे।
विशिष्टार्थक्रियासक्ताः प्रथमेभ्योऽविलक्षणाः॥५७९॥ ___ यदि प्रथमावस्थाभाविभ्योऽसमधिगतपटाख्यानेभ्यस्तन्तुभ्यः पटस्य भेदः साध्यते, तदा सिद्धं साध्यते; सर्वभावानां क्षणिकत्वेन पूर्वकेभ्यस्तन्तुभ्यः पटशब्दवाच्यानां तन्तूनां तद्विलक्षणपदार्थासम्भवेऽप्युत्पादस्याङ्गीकरणात् ॥५७८-५७९॥
अथ पटसमानकालभाविनो ये तन्तवस्तेभ्यः पटस्यानन्यत्वं प्रसाध्यते, तदा हेतूनामसिद्धतेति दर्शयन्नाह
एककार्योपयोगित्वज्ञापनाय, यदि तदानीं तन्तुव्यतिरिक्तस्तत्समानकालभावी पटः प्रसिद्धो भवेत्, तदा तस्य तन्तुव्यपेक्षया विभिन्नकर्तृत्वादयो धर्माः सिध्येयुः, यावता स एवायं तन्तुव्यतिरेकी [G.195] पटो न सिद्धः; तद्भेदस्यैव प्रसाधयितुं प्रस्तुतत्वात्। न च 'पट:"तन्तवः' इति संज्ञामात्राद्वस्तूनां भेदः; प्रयोजनान्तरवशेनापि संज्ञान्तरस्य निवेशात्। तथा हि-केचित् तन्तवो विशिष्टावस्थाप्राप्ताः १. अन्यवादिनोऽपीत्यर्थः।
२-२. पा०, गा० पुस्तकयो स्ति। ३. पदार्थार्थत्वासम्भवे०-गा।