________________
१७०
तत्वसंग्रहे
षड्भ्योऽन्यस्ते प्रसज्यते॥५७२॥ पदार्थ इति शेषः । सप्तमः पदार्थः प्राप्नोति, ततश्च षट्पदार्थाभ्युपगमो हीयत इति भावः ॥५७२॥ इष्टत्वाददोष इति चेत् ? यद्येवम्, कथम् 'षट् पदार्थाः' इति प्रोक्तम्? इत्याह
षडेते धर्मिणः प्रोक्ता धर्मास्तेभ्योऽतिरेकिणः।
इष्टा एवेति चेत् ? धर्मिरूपा एव ये भावास्ते षट्पदार्था इति प्रोक्ताः, धर्मरूपास्तु षट्पदार्था व्यतिरिक्ता इष्टा एव। तथा हि पदार्थप्रवेशके ग्रन्थः- "एवं धर्मैर्विना धर्मिणामेष निर्देशः कृतः" ( ) इति। कोऽयमित्यादिनोत्तरमाह
कोऽयं सम्बन्धस्तस्य तैर्मतः ॥५७३॥ द्रव्येषु नियमाद्युक्ता न संयोगो न चापरः। .
समवायोऽस्ति नान्यश्च सम्बन्धोऽङ्गीकृतः परैः ॥५७४॥ तस्य अस्तित्वादेर्धर्मस्य। तैरिति [G.193] षड्भिः पदार्थैः । क; सम्बन्धो येन तेषामसौ धर्मो भवति। न हि सम्बन्धमन्तरेण धर्मिधर्मभावो युक्तः; अतिप्रसङ्गात्। एवं हि सर्वस्य सर्वधर्मत्वं स्यात्। न हि कश्चित्तैः सह सम्बन्धोऽस्ति । तथा हि द्विविध एव सम्बन्धःसंयोगलक्षणः, समवायलक्षणश्च। तत्र न तावत्संयोगलक्षणः; तस्य गुणत्वेन द्रव्येष्वेव नियतत्वात्। न च समवायात्मकः; तस्य भाववदेकत्वेनेष्टत्वात् । समवायेन च समवायात्मके सम्बन्धे सति द्वितीयः समवायोऽङ्गीकृतः स्यात् ॥ ५७३-५७४॥ विनैव सम्बन्धं धर्मधर्मिभावो भविष्यतीति चेत् ? प्राह
सम्बन्धानुपपत्तौ च तेषां धर्मो भवेत् कथम्?
तदुत्पादनमात्राच्चेदन्येऽपि स्युस्तथाविधाः ॥५७५॥ एवं ह्यतिप्रसङ्गः स्यादित्युक्तम्। अथ तैः षड्भिः पदार्थर्धर्मस्योत्पादनात् तेषामयं धर्मः सम्बन्धीत्युच्यते? यद्येवम्, अन्येऽपि तर्हि जलादयस्तदुत्पत्तिलक्षणसम्बन्धमात्रादेव तथाविधाः कुण्डादिसम्बन्धिनः, स्युः भवेयुः; ततश्च संयोगसमवायाख्यसम्बन्धान्तरकल्पना तेषु व्यर्था स्यात् ॥ ५७५ ॥
तस्याप्यस्तित्वमित्येवं वर्तते व्यतिरेकिणी।
विभक्तिस्तस्य चान्यस्य भावेऽनिष्ठा प्रसज्यते ॥५७६ ॥ किञ्च-भवतु नाम षण्णामस्तित्वं नाम धर्मान्तरम्, तथापि व्यभिचार एव, तथा हि-तस्याप्यस्तित्वमस्त्येव; वस्तुत्वात्, ततश्च तत्र व्यतिरेकनिबन्धना विभक्तिः कथं भवेत् ! अथ तत्राप्यपरमस्तित्वमङ्गीक्रियते? तदाऽनवस्था स्यात् ॥५७६ ॥ इष्टत्वान्नानवस्था बाधिकेति चेत्, आह
अन्यधर्मसमावेशे प्राप्ता तत्र च धर्मिता। द्रव्यादेरपि धर्मित्वमस्मादेव च सम्मतम् ॥५७७॥