________________
द्रव्यपदार्थपरीक्षा
१६९
स्यादेतत्-यद्यदृष्टं शुक्लादिरूपं वाससो नास्त्येव, तत्कथं धौताद्यवस्थायां पुन
रुपलभ्यते ? इत्याह
. पुनर्जलादिसापेक्षात्
तस्मादेवोपजायते ।
रूपाद् रूपान्तरं शुक्लं लोहादेः श्यामतादिवत् ॥ ५६८ ॥ यथाग्निसम्पर्कात् समुपजातभासुरादिरूपस्य लोहादेः पुनः श्यामादिरूपोत्पत्तिः, तद्वद्रूपान्तरमेवोपजायते शुक्लादीत्यविरोधः ॥ ५६८ ॥
स्यादेतत्, कथमिदमवगम्यते – रूपान्तरमेवोपजायते, न पुनः प्राक्तनं रूपम्, अभिभूतत्वात् प्रागनुपलब्धं सत् पश्चादभिभवाभावादुपलभ्येत ? इत्याह
तादवस्थ्ये तु रूपस्य नान्येनाभिभवो भवेत् । प्राक्तनानभिभूतस्य स्वरूपस्यानुवर्त्तनात् ॥ ५६९॥
प्रयोगः– यदपरित्यक्तानभिभूतस्वभावम्, न तस्य परेणामिभवोऽस्ति, यथा- - तस्यैव प्राक्तनावस्थायाम् । अपरित्यक्तानभिभूतस्वभावं च रूपमभिभवास्थायामिति व्यापकविरुद्धोपलब्धिः । परित्यक्तानभिभूतस्वभावत्वेऽङ्गीक्रियमाणे सिद्धमस्यान्यत्वम् ॥ ५६९ ॥ 'रूपादीन्दीवरादिभ्यः " (तत्त्व० ५५८) इत्यादावाह
64
षष्ठीवचनभेदादि
विवक्षामात्र सम्भवि ।
ततो न युक्ता वस्तूनां 'तत्त्वरूपव्यवस्थितः ॥ ५७० ॥
[G.192] यदि हि यथावस्तु षष्ठयादीनां प्रवृत्तिः सिद्धा स्यात्, तदा भवेत्ततो वस्तुसिद्धिः ; यावता स्वतन्त्रेच्छामात्रभाविन एते, न बाह्यवस्तुगत भेदाद्यपेक्षिणः, तत् कथमेतेभ्यो वस्तुसिद्धि: ? तत्र षष्ठी पटस्य रूपादय इति, पटो रूपादय इति वचनभेदः । आदिग्रहणादिह पटे रूपादय इति सप्तमी; पटस्य भावः पटत्वमिति तद्धितोत्पत्तिरित्यादिपरिग्रहः ॥ ५७० ॥ तथा हीत्यादिनाऽनैकान्तिकत्वमेव समर्थयते
- तथा हि भिन्नं नैवान्यैः षण्णामस्तित्वमिष्यते ।
तेषां वर्गश्च नैवैकः कश्चिदर्थोऽभ्युपेयते ॥ ५७१ ॥
तथा हि- षण्णां पदार्थानामस्तित्वं तेषां च षण्णां वर्ग इत्यादावसत्यपि वास्तवे भेदे षष्ठ्यादि भवत्येवं । न हि भवद्भिः षट्पदार्थव्यतिरिक्तमस्तित्वादीष्यते । उपलक्षणमेतत् । तथा—दाराः, सिकता इत्यादौ सत्यपि बहुवचने नार्थभेदं पश्यामः । स्वस्य भावः स्वत्वमिति न भावोऽन्य इष्यते ॥ ५७१ ॥
संज्ञापकेत्यादिनां परस्योत्तरमाशङ्कते
संज्ञापक प्रमाणस्य विषये तत्त्वमिष्यते । षण्णामस्तित्वमिति चेत् ?
संज्ञापकप्रमाणविषयस्य भावस्तत्त्वं सदुपलम्भकप्रमाणविषयत्वं' नाम धर्मान्तरं षण्णामस्तित्वमिष्यत इत्यर्थः । अतो नास्ति व्यभिचार इति भावः ।
1
अत्रोत्तरमाह
१. तत्स्वरूप० पा०, गा० ।
२. ० विषयं जै० 1