________________
१६८
तत्वसंग्रहे यदि हि तेषां तद्रूप्रता तात्त्विकी स्यात्, तदा तद्रूपाग्रहणेऽपि तेषां ग्रहणमस्तीति योऽयं भवतामनन्तरोदितः पक्षस्तस्य क्षतिः स्यात् ॥ ५६३ ॥ स्यादेतत्-लोहितादिरूपव्यतिरिक्तः स्फटिकादिरप्युपलभ्यत एव? इत्याह
तद्रूपव्यतिरिक्तश्च नापरात्मोपलभ्यते। न हि तस्माल्लोहितादिरूपाद् व्यतिरिक्तोऽपरात्मा-स्वभावः स्फटिकादि-लक्षणो दृश्यते; रक्तादिरूपस्यैवोपलम्भात्। अतद्रूपा अपि स्फटिकादयो रक्तादिरूपेणोपलभ्यन्ते इति चेद् ? आह
न चान्याकारधीवेद्या युक्तास्तेऽतिप्रसङ्गतः ॥५६४॥ आकारवशेन हि प्रतिनियतार्थविषयता ज्ञानस्यावस्थाप्यते। यदि चान्याकारस्यापि ज्ञानस्यान्यो विषयः स्यात्, एवं सति रूपज्ञानमपि शब्दादिविषयं स्यात्; विशेषाभावात् ।। ५६४॥
किञ्च-भवतु नामान्याकारस्यापि ज्ञानस्यान्यो विषयः, तथापि नेष्टसिद्धिर्भवत इति दर्शयन्नाह
शुक्लादयस्तथा वेद्या इत्येवं चापि सम्भवेत्।
तस्माद् भ्रान्तमिदं ज्ञानं कम्बुपीतादिबुद्धिवत् ॥५६५॥ तथा हि-शुक्लादय एव तद्व्यतिरिक्तगुणिपदार्थरहितास्तथा रक्तादिरूपेण विद्यन्त इत्येवमपि सम्भाव्यते, ततश्च न गुणसिद्धिः। चकारोऽवधारणे, भिन्नक्रमश्च 'शुक्लादयः' इत्यस्यानन्तरं द्रष्टव्यः। भ्रान्तमिदमिति । अयथार्थत्वादिति शेषः ॥५६५ ॥
यच्चोक्तम्-"कञ्चकान्तर्गते पुंसि" (तत्त्व० ५५७) इत्यादि, तदपि न प्रत्यक्षम्; साभिजल्पत्वाद्, अस्फुटाकारत्वाच्च। किं तर्हि ? आनुमानिकमेतज्ज्ञानं रूपादिसंहतिमात्रलक्षणपुरुषविषयमित्यतो नावयविसिद्धिरिति दर्शयति
कञ्चकान्तर्गते पुंसि तज्ज्ञानं त्वानुमानिकम्।
तद्धेतुसन्निवेशस्य कञ्चुकस्योपलम्भनात् ॥५६६॥ [G.191] स पुरुषो रूपादिप्रचयमात्रात्मको हेतुर्यस्य सन्निवेशस्य स तथोक्त: तद्धेतुः, सन्निवेशः= संस्थानविशेषो यस्य कञ्चकस्य तत्तथोक्तम्। एतेन कार्याख्यलिङ्गविशेषजनितत्वमनुमानप्रत्ययस्योपदर्शितं भवति ॥५६६॥ यच्चोक्तम्-"रक्ते वाससि वस्त्रधीः" (तत्त्व० ५५७) इति, तत्राह
कषायकुङ्कमादिभ्यो वस्त्रे रूपान्तरोदयः।।
पूर्वरूपविनाशे हि वाससः क्षणिकत्वतः ॥५६७॥ तत्र हि क्षणिकत्वाद्वासस: पूर्वशुक्लादिरूपविनाशे सत्यपूर्वमेव रूपादि सामग्रयन्तरबलादुपजायते, तमिश्च प्रत्यक्षेण गृहीते पश्चाद्यथा 'समयाहितभेदं समुदायविषयं वासो वास इति प्रत्यक्षपृष्ठभावि सांवृतं परमार्थतो निर्विषयमेव प्रत्यवमर्शज्ञानमुत्पद्यत इत्यसिद्धमस्य प्रत्यक्षत्वम् । नाप्येतदनुमानम्; पूर्वप्रत्यक्षगृहीतविषयत्वाद्, अलैङ्गिकत्वाच्च। तस्मान्नात्र किञ्चिदभिभूतं रूपमस्ति ।। ५६७॥ १. न ज्ञान-पान, गा. २. सङ्केताहितभेदमित्यर्थः ।
३. काल्पनिकमित्यर्थः।