________________
द्रव्यपदार्थपरीक्षा
१६७ इन्दीवरादिभ्यो गुणो भिन्नः, 'इन्दीवरस्य रूपादयः' इत्येवं तेनेन्दीवरादिना तस्य रूपादेर्व्यवच्छेदात् । यथा 'चैत्रस्य तुरङ्गमः' इति चैत्रेण स्वाभ्यन्तरेभ्यो [G.189] व्यवच्छिद्यमानस्तुरङ्गमस्ततो भिद्यते। तथाऽपरः प्रयोगः-प्रत्येकं पृथिव्यप्तेजोवायवो द्रव्याणि रूपरसगन्धस्पर्शेभ्यो भिन्नानि; एकवचनबहुवचनविषयत्वात्, यथा-चन्द्रो नक्षत्राणीति । यथैव हि चन्द्र इत्येकवचनम्, नक्षत्राणीति बहुवचनं चन्द्रनक्षत्राणां भेदनिबन्धनमुपलभ्येत, तथात्रापि 'पृथिवी' इत्येकवचनम्, 'रूपरसगन्धस्पर्शाः' इति बहुवचनम्। एवं जलादिष्वपि योज्यम्। नक्षत्रभेदास्तु पुष्यादयः ॥ ५५८-५५९॥ एवं गुणगुणिनोर्भेदं प्रसाध्य, अवयवावयविनोर्भेदप्रसाधनायाह
विभिन्नकर्तृशक्त्यादेर्भिन्नौ तन्तुपटौ तथा।
विरुद्धधर्मयोगेन स्तम्भकुम्भादिभेदवत् ॥५६०॥ प्रयोगः-ये भिन्नकर्तृकार्यकालपरिमाणास्ते विभिन्नाः, यथा-स्तम्भकुम्भादयः । विभिन्नकर्तृकार्यकालपरिमाणाश्च विचारविषयाः । नासिद्धो हेतुः, नाप्यनैकान्तिकः । विरुद्धधर्माध्यासमात्रनिबन्धनो हि भावानां परस्परतो भेदः, यथा स्तम्भादीनाम्। स चावयवावयविनोरप्यस्ति। तथा हि-तन्तूनां योषित् कंी, पटस्य कुविन्दः; शीतापनोदादिकार्यसमर्थः पटः,न तन्तवः । प्रागपि तन्तूनामुपलब्धेः पूर्वकालभावित्वम्, पटस्य तु पश्चात् कुविन्दादिव्यापारोत्तरकालभावित्वम्। पटस्यायामविस्तराभ्यां यावत् प्रमाणं न तावत् प्रत्येकं तन्तूनामस्तीति भिन्नपरिमाणत्वम्, अतो नानैकान्तिकता हेतूनामिति भावः ।।५६० ॥
एवं तावदनुमानतोऽवयवावयविनोर्भेदं प्रसाध्य, प्रत्यक्षतोऽपि साधयन्नाह- स्थूलार्थासम्भवे तु स्यान्नैव वृक्षादिदर्शनम्।
अतीन्द्रियतयाऽणूनां न चाणुवचनं भवेत् ॥५६१॥ यदि ह्यवयवी न स्यात्, सर्वाग्रहणप्रसङ्गः; परमाणूनामतीन्द्रियत्वात्। स्थूलाभावे 'अणुः' इति व्यपदेश एव न स्यात्। कस्मात्? इत्याह__ . स्थूलवस्तुव्यपेक्षो हि सुसूक्ष्मोऽर्थस्तथोच्यते।
स्थूलैकवस्त्वभावे तु किमपेक्षास्य सूक्ष्मना? ॥५६२॥ सुबोधम् ॥ ५६२॥ [G.190] नन्क्त्यिादिना प्रतिविधत्ते
ननु रक्तादिरूपेण गृह्यन्ते स्फटिकादयः।
न च तद्रूपता तेषां स्वपक्षक्षयसङ्गतेः ॥५६३॥ यदुक्तम्-स्फटिकादयः स्वगतगुणानुपलम्भेऽपि केवला समुपलम्भ्यन्त इति, तदसिद्धम्; तज्ज्ञानस्यायथार्थतया भ्रान्तत्वेनाविषयत्वात्। तथा हि-जपाकुसुमाद्युपधाने रक्तादिरूपेणासन्नेव न 'स्फटिकोपलभ्यते। 'बलाकाबकुलादयोऽपि धवला: सन्तः श्यामरूपा वीक्ष्यन्ते। न च तेषां तात्त्विकी तद्रूपता रक्तादिरूपताऽस्ति । कस्मात् ? स्वपक्षक्षयसङ्गतेः। १. स्फटिक उप०-पा०, गा०।। २. बलाकादयो-पा०, गा० ।