________________
१६६
तत्वसंग्रहे अपि च-देशकालस्वभावविप्रकृष्टानामर्थानामुपलम्भकप्रमाणनिवृत्तावपि सद्भावाविरोधात्, ततोऽनैकान्तिकता च हेतोरिति दर्शयति
सद्ग्राहकप्रमाभावान्न वा सत्ता प्रसिध्यति।
प्रमाणविनिवृत्तौ हि नार्थाभावेऽस्ति निश्चयः ॥५५४॥ नार्थाभावेऽस्ति निश्चय इति । पिशाचादिवदिति भावः ॥ ५५४ ॥ एवं तावत् कारणद्रव्यं निषिद्ध्य कार्यद्रव्यनिषेधार्थमाह
तदारब्धस्त्ववयवी गुणावयवभेदवान्।
नैवोपलभ्यते तेन न सिध्यत्यप्रमाणकः ॥५५५॥ [G.188] गुणा रूपादयः, अवयवास्तन्त्वादयः, तेषां भेदः व्यतिरेकः, सोऽस्यास्तीति तथोक्तः । स तथाभूतो गुणावयवव्यतिरिक्तोऽवयवी नोपलभ्यते। न हि पटादिलक्षणंमवयवि द्रव्यमविकलं शुक्लादिगुणेभ्योऽवयवेभ्यश्च तन्त्वादिभ्योऽर्थान्तरभूतं क्वचिच्चक्षुरादिज्ञाने च भासते। तदत्र गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भेन गुणगुणिवादोनिरस्तः; अवयवव्यतिरिक्तावयव्यनुपलम्भेन त्ववयवावयविवादः। प्रयोगः-यदुपलब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते तत्तत्र नास्ति, यथाक्वचित् प्रदेशविशेषे घटादिरनुपलभ्यमानः । नोपलभ्यते च गुणावयवेभ्योऽर्थान्तरभूतस्तत्रैव देशे गुणी दृश्यत्वेनाभिमतोऽवयवी चेति स्वभावानुपलब्धेः । न चासिद्धो हेतुः;"महत्यनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः" (वै०.द०४.१.६) इति वचनात्तयोर्दृश्यत्वेनाभिमतत्वात् ॥५५५ ॥ नन्क्त्यिादिना उद्योतकर-भाविविक्तादयो हेतोरसिद्धतामुद्भावयन्ति
ननूपधानसम्पर्के दृश्यते स्फटिकोपलः। तद्रूपाग्रहणेऽप्येवं बलाकादिश्च दृश्यते ॥५५६॥ कञ्चुकान्तर्गते' पुंसि । तद्रूपाद्यगतावपि।
पुरुषप्रत्ययो दृष्टो रक्ते वाससि वस्त्रधीः ॥५५७॥ त एवमाहुः-गुणव्यतिरिक्तो गुणी समुपलभ्यत एव; तद्रूपादिगुणाग्रहणेऽपि तस्य ग्रहणात्। तथा हि-स्फटिकोपलः सन्निहितोपधानावस्थायां स्वगतशुक्लगुणानुपलम्भेऽपि दृश्यत एव। बलाकादिश्च रात्रौ मन्दमन्दप्रकाशायां तद्गतसितादिरूपादर्शनेऽपि गृह्यत एव। तथाऽऽप्रपदीनकञ्चकावच्छिन्नशरीरे पुंसि तदीयश्यामादिरूपाद्यग्रहणेऽपि 'पुमान् पुमान्' इति प्रत्ययः प्रसूयत एव। कषायकुङ्कमादिरक्ते वाससि तद्रूपस्य संसर्पिरूपेणाभिभूतस्यानुपलम्भेऽपि वस्त्रधीर्भवत्येव ॥५५६-५५७॥
तदेवं तावत् प्रत्यक्षतएव गुणगुणिनोभेदः सिद्ध इति प्रतिपादितम् । इदानीमनुमानतोऽपि सिद्ध इति प्रतिपादयन्नाह
रूपादीन्दीवरादिभ्य एकान्तेन विभिद्यते। तेन तस्य व्यवच्छेदाच्चैत्रादिव तुरङ्गमः ॥५५८॥ क्षित्यादिरूपागन्धादेरत्यन्तं वा विभिद्यते।
एकानेकवचोभेदाच्चन्द्रनक्षत्रभेदवत् ॥५५९॥ १. कतकान्तरिते-पा०. गा०।
२. तदा- पा०, गा०।