________________
१६५
द्रव्यपदार्थपरीक्षा नित्यत्वे सकलाः स्थूला जायेरन् सकृदेव हि। यदि पर्वतादीनां स्थूलानां कारणभूताः परमाणवो नित्याः सन्तीत्यभ्युपगम्यते, तदा तत्कार्याणां स्थूलानामविकलकारणत्वात् सकृदेवोत्पत्तिप्रसङ्गः। प्रयोग:-ये समग्राप्रतिबद्धकारणास्ते सकृदेव भवन्ति, यथा-बहवोऽङ्करास्तुल्योत्पादाः समग्राप्रतिबद्धकारणाश्च । नित्याणकार्यत्वेनाभिम स्थूला भावा इति स्वभावहेतुः। समग्रकारणस्याप्यनुत्पादे सर्वदैवानुत्पादप्रसङ्गः; विशेषाभावादिति बाधकं प्रमाणम्। स्यादेतत्-त्रिविधं कारणमिष्टम्समवायिकारणम्, असमवायिकारणम्, निमित्तकारणं च। 'यत्र हि यत्समवैति कार्यं तत् तस्य समवायिकारणम्। असमवेतं तु यदयस्य कारणभावं प्रतिपद्यते तदसमवायिकारणम्, यथा-अवयविद्रव्यारम्भेऽवयवसंयोगः। परिशेषं तु कारणं निमित्तकारणम्, तद्यथा धर्मादयः-इत्ययमेषां विभागः।।
तत्रापेक्षणीयस्य संयोगादेरसन्निहितत्वात् समग्रकारणत्वमसिद्धम्, अतोऽसिद्धो हेतुः? इत्याशङ्कयाह
संयोगादि न चापेक्ष्यं तेषामस्त्यविशेषतः ॥५५१॥ यदि हि संयोगादिना कश्चिद्विशेषोऽणूनामाधीयेत, तदा ते तमपेक्षेरेन्; यावता परैरनाधेयविशेषा एवणावः; नित्यत्वात्। तत् कथं संयोगादि तेषामपेक्ष्यं स्यात्। न च सकृदेव [G.187] स्थूलानां तनुभवनादीनामुदयोऽस्ति; क्रमेण तन्वादीनामुत्पत्तिदर्शनात्। तस्माद्विपर्ययः । प्रयोगः-ये क्रमवत्कार्यहेतवस्ते नित्याः, यथा-क्रमवदङ्करादिकार्यनिर्वर्तका बीजादयः । तथा च परमाणव इति स्वभावहेतुः ॥५५१॥
___ अविंद्धकर्णस्त्वणूनां नित्यत्वप्रसाधनाय प्रमाणमाह-"परमाणूनामुत्पादकामिभमतं सद्धर्मोपगतं न भवति; सत्त्वप्रतिपादकप्रमाणविषयत्वात्, खरविषाणवत्" ( ) इति । सतो विद्यमानस्य धर्मः सद्धर्म:=अस्तित्वम्, तेनोपगतं प्राप्तमस्तीत्यर्थः । तस्य प्रतिषेधोऽयम्। अणूत्पादकं कारणं नास्तीत्यर्थः। तदेतत् प्रमाणमाशङ्कापूर्वमुपदर्शयन्नाह
- सद्धर्मोपगतं नो चेदणूत्पादकमिष्यते।
विद्यमानोपलम्भार्थप्रमाणाविषयत्वतः॥५५२॥ अणूत्पादकं सद्धर्मोपगतं नो चेदिष्यत इति सम्बन्धः। विद्यमानस्योपलम्भ:अधिगमः, सोऽर्थः प्रयोजनं यस्य प्रमाणस्य तत्तथोक्तम्। शेष सुबोधम्। एतेनाणूनामनित्यत्वप्रतिज्ञाया अनुमानबाधितत्वमुद्भावितम्: "सदकारणवनित्यम्" ( ) इति वचनात्। अकारणवत्त्वेनाणूनां नित्यत्वस्य सिद्धत्वात् ॥५५२ ॥ नासिद्धरित्यादिना हेतोरसिद्धतामाह
नासिद्धेदृश्यते येन कुविन्दाद्यणुकारणम्। ... परमाण्वात्मका एव येन सर्वे पटादयः ॥५५३॥
ननु कुविन्दादयः पटादीनामेव कारणत्वेन सिद्धाः, नाणूनाम्, तत्कथमणुकारणं कुविन्दादि दृश्यते? इत्याह- परमाण्वात्मका इत्यादि। एतच्च पश्चात् प्रतिपादयिष्याम इति भावः ॥५५३ ॥
१. तत्र-पा०, गा०॥