________________
१०. द्रव्यपदार्थपरीक्षा इदानीम् "गुणद्रव्यक्रियाजातिसमवायाधुपाधिभिः,शून्यम्' (तत्त्व० २) इत्येतत्समर्थनार्थं षट्पदार्थपरीक्षोपक्षेपं कुर्वनाह
जात्यादेनिःस्वभावत्वमयुक्तं प्राक् प्रकाशितम्। द्रव्यादयः षडर्था ये विद्यन्ते पारमार्थिकाः ॥५४६॥ इत्याक्षपादकाणादाः प्राहुरागममात्रकाः ।
द्रव्यादिप्रतिषेधोऽयं संक्षेपेण तदुच्यते ॥५४७॥ प्राक् स्थिरभावपरीक्षायाम् "जात्यादेनि:स्वभावत्वानैवेष्टा क्षणभङ्गिता" (तत्त्व० ४७०) इत्यनेन यज्जात्यादेः निःस्वभावत्वं प्राक् प्रकाशितम्, तदयुक्तम् यतो द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थाः पारमार्थिकाः 'द्रव्यसन्तः सन्तीत्याहुराक्षपादादयः। अक्षपादशिष्यत्वादाक्षपादाः= नैयायिकाः। कणादशिष्यास्तु वैशेषिकाः काणादा उच्यन्ते। आगममात्रका इति। आगममात्रमपेतयुक्तिकमेषामस्तीत्यागममात्रकाः ॥ ५४६-५४७॥
क्षित्यादिभेदतो भिन्नं नवधा द्रव्यमिष्यते।
चतुःसङ्ख्यं पृथिव्यादि नित्यानित्यतया द्विधा ॥५४८॥ तत्र क्षित्यादीत्यादिना द्रव्यपदार्थप्रतिषेधार्थ तावत्तद्विभागमाह। विभक्तस्य हि भेदेन सुखं दूषणस्य वक्तुं शक्यत्वादिति भावः। नवधेति। "पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मनः" (वै० द० १.१.४) इति सूत्रात्। तत्रं पृथिव्यापस्तेजोवायुरित्येतच्चतुःसङ्ख्यं द्रव्यं नित्यानित्यभेदेन द्विप्रकारम् ॥ ५४८॥ [G.186] तदेव द्वैविध्यमस्य दर्शयन्नाह
पृथिव्याद्यात्मकास्तावद् य इष्टाः परमाणवः।
*तेऽनित्या ये तदाद्यैस्तु प्रारब्धास्ते विनाशिनः ॥५४९॥ परमाण्वात्मका हि पृथिव्यादयो नित्याः; परमाणूनां नित्यत्वात्। तदाद्यैस्तु प्रारब्धा अनित्याः; हेतुमदिनित्यम्' इति न्यायात् । तदारिति । ते परमाणव आद्या येषां ते तदाद्याः । आकाशादयस्तु नित्या एवेति भावः ॥ ५४९॥ तत्रैतच्चतुःसङ्घयं तावद् द्रव्यं निषेद्धमाह
तत्र नित्याणुरूपाणामसत्त्वमुपपादितम्।
निःशेषवस्तुविषयक्षणभङ्गप्रसाधनात् ॥५५०॥ तत्र य एते नित्याणुरूपाः पृथिव्यादयो वर्णिताः, तेषामशेषवस्तुव्यापिनः क्षणभङ्गस्य प्रसाधनान्नित्यत्वरूपेणासत्त्वं प्रसाधितमेव; यत्सत्तत् सर्वं क्षणिकमक्षणिकस्य "क्रमयोगपद्याभ्यामर्थक्रियाविरोधात्तल्लक्षणं सत्त्वं हीयते' इति व्याप्तेः प्रसाधितत्वात् ।। ५५० ॥
अत्रापि बाधकं प्रमाणमाह१. ०गममात्रिका--जै। २. पा०, गा० पुस्तकयो स्तिो
३. द्विविधा-जै। ४. अनित्या-पा०, गा१।
५. यौगपद्याभ्याम०-पा०, गा०।
-