________________
१६३
कर्मफलसम्बन्धपरीक्षा मुच्यमानस्य यासिद्धेः केवलमविद्यादयः संस्कारा जरामरणपर्यन्ता दुःखोत्पादहेतुतया बन्धः' इति व्यवह्रियन्ते। तथा चोक्तम्-"एवमस्य केवलस्य हेतोर्दुःखस्कन्धस्य समुदयो' भवति" (म० व० १.१) इति । तेषां चाविद्यादीनां तत्त्वज्ञानाद् विगतौ सत्यां या निर्मलता धियः सा निर्मुक्तिरित्युच्यते । यथोक्तम्
. "चित्तमेव हि संसारो रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते॥"
( ) इति ॥ ५४३ ॥ यच्चोक्तम्-“एकाधिकरणावेतौ" (तत्त्व० ४९९) इत्यादि, तत्रापि दृष्टान्तस्य साध्यविकलतेति दर्शयन्नाह
. एकाधिकरणौ सिद्धौ 'नैव तौ लौकिकावपि।
. बन्धमोक्षौ प्रसिद्धं हि क्षणिकं सर्वमेव सत् ॥५४४॥ सर्वमेव हि वस्तूदयानन्तरापवर्गी ति प्रसाधितं यदा, तदा न क्वचिदेकाधिकरणत्वं बन्धमोक्षयोः प्रसिद्धमस्तीत्यप्रसिद्धो दृष्टान्तः ॥५४४॥ [G.185] तदेवं स्वपेक्षं व्यवस्थाप्य सर्वथेत्यादिना परपक्षं प्रतिषेधति
सर्वथाऽतिशयासत्त्वाद् व्याहता त्वात्मनीदृशी।
कर्तृभोक्तृत्वबन्धादिव्यवस्थाऽनित्यताऽन्यथा ॥५४५॥ यदि हि रागादिभिः क्लेशैर्बन्धो भावनादिभिश्चातिशयः कश्चिदात्मनः क्रियेत,तदा तस्य बन्धमोक्षादिव्यवस्था भवेत्; यावता नित्यतया न तस्यातिशयाधानमस्तीति नेयमीदृशी नियतकार्यकारणमर्यादालक्षणा बन्धमोक्षादिव्यवस्था घटते, यथाऽऽकाशस्येति भावः । अन्यथेत । यद्यतिशयोत्पादो भवेदात्मनः, तदाऽतिशयस्यात्मभूतत्वादात्मनोऽपि तदव्यतिरेकेणातिशग्नवदनित्यता स्यात् । परभूतस्त्वतिशयो न युक्तः; सम्बन्धासिद्धेरिति शतधा चर्चितमेतत् ॥ ५४५ ॥
. इति कर्मफलसम्बन्धपरीक्षा
१. समुदायो-गा०।
२-२. नैवैतौ-पाणा।
३. तत्-पा० गा०।