________________
१६२
तत्वसंग्रहे ये तावदप्रहीणसहजेतरसत्कायदर्शनादयः, तेषामयं क्षणभेदविकल्पो नास्त्येव । तथा हि-ते सन्ततिमेकत्वेनाध्यवसाय 'सुखिता वयं भविष्यामः' इत्याहितपरितोषाः कर्मसु प्रवर्तन्ते। येऽपि पृथग्जनकल्याणा एवं युक्त्यागमाभ्यां यथावत् क्षणिकात्मतयोरवबोधाभिसम्बुद्धतत्त्वाः, तेऽप्येवं प्रतीत्यसमुत्पादधर्मतां प्रतिपद्यन्ते। करुणादिपूर्वकेभ्यो दानादिभ्यः स्वपरहितोदयशालिनः संस्काराः क्षणिका एवापरापरे परम्परया समुत्पद्यन्ते, न तु हिंसादिभ्य इत्यतस्ते हेतुफलप्रतिनियममवधार्य शुभादिक्रियासु प्रवर्त्तन्ते । यथोक्तम्
."यावच्चात्मनि न प्रेम्णो हानिः स परितस्यति ॥
तावद् दुःखितमारोप्य न च स्वस्थोऽवतिष्ठते। मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि भोक्तरि॥"..
___ (प्र० वा० १. १९३-९४) इति। कार्यकारणभावः, तदधिगन्तृ च प्रमाणं यथा सिध्यति तथा प्रतिपादितमेव ॥ ५४०-५४१ ॥ [G.184) यच्चोक्तम्-"क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटा" (तत्त्व० ४३९) इति । तत्राह
केषाञ्चिदेव चित्तानां विशिष्टा कार्यकार्यिता।
नियता तेन निर्बाधाः सर्वत्र स्मरणादयः ॥५४२॥ कार्यकार्यितेति। कार्यमस्यास्तीति कार्यि, कारणमित्यर्थः। कार्यकार्यिणोर्भाव: कार्यकार्यिता। कार्यकारणभाव इत्यर्थः । न हि कश्चित् परमार्थतः स्मर्ताऽनुभविता वाऽस्ति; यतो येनैवानुभूतं स एव स्मरतीति स्यात्, किं तर्हि ? यत्र सन्ताने पटीयसाऽनुभवेनोत्तरोत्तरविशिष्टतरतमक्षणोत्पादात् स्मृत्यादिबीजमाहितं तत्रैव स्मरणादयः समुत्पद्यन्ते, नान्यत्र; प्रतिनियतत्वात् कार्यकारणभावस्येति समासार्थः । यथोक्तम्
"अन्यस्मरणभोगादिप्रसङ्गश्च । न बाधकः ॥ अस्मृतेः, कस्यचित् तेन ह्यनुभूते स्मृतोद्भवः"।
. (प्र० वा० १. २७१-२७२) इति। स्मरणादिपूर्वकाश्च प्रत्यभिज्ञानादयः प्रसूयन्त इत्यविरुद्धम्। न चापि क्वचिदेकज्ञातृनिबन्धनाः प्रत्यभिज्ञानादयः सिद्धाः, येनोच्यते-"विभेदे त्वनिबन्धनम्" (तत्त्व० ४९४) इति; कार्यकारणभावमात्रतया सर्वत्रैव भेदाभ्युपगमात् ॥५४२॥ .
यच्चोक्तम्-"रागादिनिगडैर्बद्धः" (तत्त्व० ४९६) इत्यादिना बन्धमोक्षव्यवस्थानमनुपपन्नमिति, तत्राह
कार्यकारणभूताश्च तत्राविद्यादयो मताः।
बन्धस्तद्विगमादिष्टा' मुक्तिर्निर्मलता धियः ॥५४३॥ न हि क्वचिदस्माकमेकपुरुषाधिकरणौ बन्धमोक्षौ प्रसिद्धौ; कस्यचिद् बध्यमानस्य १-१. गा०संस्करणसम्पादकस्त्वत्र प्रमादात् ‘सपदि नश्यति' इति पाठं स्वीचिकीर्षति ।
परितस्यतीत्यस्य 'दुःखमास्ते' इत्यर्थः। । २. ०दिष्टो-पा०, गा० ।