________________
कर्मफलसम्बन्धपरीक्षा
अकृताभ्यागमोऽपि स्याद्यदि येन विना क्वचित् । जात हेतुना कार्यं नैतन्नियतशक्तितः ॥ ५३८ ॥
यदि हि परमार्थतः कश्चित् कर्त्ता भोक्ता वाऽभीष्टः स्यात्, तदा क्षणभङ्गित्वाङ्गीकरणे कृतनाशादिप्रसङ्गः स्यात्, यावतेदं प्रत्ययतामात्रमेव विश्वं न केनचित् कर्त्रा किञ्चित् कृतम्, 'नापि भुज्यते, तत् कथं कृतनाशादिप्रसङ्गापादानं स्यात् ।
अथ पूर्वकुशलादिचेतनाहितेष्टानिष्टफलोत्पादनसामर्थ्यविप्रणाशात् पूर्वकर्मानाहितसामर्थ्यविशेषाच्च कारणतः फलोत्पत्तेर्यथाक्रमं कृतनाशाकृताभ्यागमदोषप्रसङ्गो विधीयते ? तदयुक्तम्; न हि पूर्वकर्माहितसामर्थ्यानुबन्धनस्य नैरात्म्येन सह कश्चिद् विरोधः । तथा हि- लाक्षादिरसावसिक्तानामिव बीजानां सन्तानमनुवर्त्तन्त एव पूर्वकर्माहिताः सामर्थ्यविशेषा:; यत उत्तरकालं लब्धपरिपाकेभ्य इष्टमनिष्टं वा फलमुदेति, नापि पूर्वकर्मानाहितसंस्कारात् सन्तानात् फलोत्पत्तिरिष्यत इति कुतोऽकृताभ्यागमो दोषः ।
उद्द्योतकरस्त्वाह – " अस्थिरत्वाच्चित्तस्य न कर्मभिर्वासनं सम्भवति" ( इति, तदयुक्तम्; न हि स्थिरस्यापरित्यक्तप्राक्तनस्वरूपस्य वासनमस्ति । अस्थिरस्य तु विशिष्टस्वभावान्तरोत्पादनमेव वासना 1 यत् पुनः "स्थिरमव्याकृतं वास्यम्" ( ) इत्युक्तं शास्त्रे, तत् प्रबन्धस्थिरतामभिप्रेत्य । यो ह्युच्छेदी सन्तानः, तस्य चिरतरकालभाविफलप्रसवकाले सन्निधानाभावान्न कारणत्वमस्ति, तेन तस्य तथाविधफलोत्पादं प्रति वासनाधारत्वमयुक्तमित्यभिप्राय: । [G. 183] तस्मात् परसिद्धान्तानभिज्ञतया यत् किञ्चिदभिहितमनेनेत्युपेक्षामर्हति ॥ ५३७-५३८॥
कुमारिलस्त्वाह - " न वयं केनचित्कर्त्रा कृतस्य कर्मणो विप्रणाशात् कृतनाशाकृताभ्यागमौ ब्रूमः, न हि भवतां मते कश्चित् कर्त्तास्ति, किं तर्हि ? निरन्वयकर्मतत्फलयोर्विनाशोत्पादाभ्युपगमात् कृतनाशाकृताभ्यागमौ प्रसज्येते" ( ) इति । तदत्रैवंविधस्य कृतनाशस्याकृताभ्यागमस्य चेष्टत्वान्नानिष्टापादनं युक्तमिति दर्शयन्नाह—
क्षणभेदविकल्पेन कृतनाशादि चोद्यते ।
'यत्' तेन नैवानिष्टं तु किञ्चिदापादितं परैः ॥ ५३९॥ पूर्वकस्य कर्मक्षणस्य निरन्वयं विनाशात् कृतनाश:, फलक्षणस्य वाऽपूर्वस्यैवोत्पादादकृताभ्यागमं इत्येवं यत् क्षणभेदविकल्पेन कृतनाशादि चोद्यते, तदिष्टमेव । न हि स्वल्पीयसोऽपि वस्त्वंशस्य कस्यचिदन्वयोऽस्तीति प्रतिपादयिष्यामः ॥ ५३९ ॥
यच्चोक्तम्–'नैव प्रवर्त्तेत प्रेक्षावान् " (तत्त्व० ४८१ ) इति, तत्राह - अहीनसत्त्वदृष्टीनां क्षणभेदविकल्पना | सन्तानैक्याभिमानेन न कथञ्चित् प्रवर्त्तते ॥ ५४० ॥ अभिसम्बुद्धतत्त्वास्तु प्रतिक्षणविनाशिषु ।
हेतूनां नियमं बुद्ध्वा प्रारभन्ते शुभाः क्रियाः ॥ ५४१ ॥
१६१
१- १. नाभिभुज्यते- पा० । ३.३. यच्चैव- पा०, गा ।
२. क्षणनाशादि- पा० गा।
४. विनाशिनाम्पा, गा