________________
१६०
तत्वसंग्रहे तत् क्षणक्षयिपक्षेऽपि समानमुपलभ्यते ॥५३३॥ पूर्वकेभ्यः स्वहेतुभ्यो विज्ञानं सर्वमेव हि।
समानकालरूपादि बोधरूपं प्रजायते ॥५३४॥ [G.181) यथैव हि भवतः स्थिरपदार्थोपलम्भः सिध्येत्, तथाऽस्माकं क्षणिकस्यापि सेत्स्यति। तथा हि-पदार्थस्योपलम्भो भवन् साकारेणैव विज्ञानेन भवेद्, अनाकारेण वा? तत्र यदि साकारेण, तदा स्वाकारानुभव एव ज्ञानस्यार्थानुभव इति स्थिरास्थिरपक्षयोर्न कश्चिद् विशेषः ।
अथानाकारेण? तदाप्यविशेष एव। तथा हि-पूर्वकेभ्य स्वहेतुभ्यस्तथा तज्ज्ञानमुपजायते, येन स समानकालभाविरूपाद्येवावबुध्यते, नान्यत्; तद्वोधात्मकस्यैव तस्योत्पन्नत्वात्। अतः समानकालभाविरूपादिबोधस्वभावे ज्ञानेऽङ्गीक्रियमाणे न कश्चिदर्थस्य स्थिरास्थिरत्वे विशेषः।
अवश्यं च भवता पूर्वहेतुकृत एव समानकालभाविप्रतिनियतरूपादिग्रहणे ज्ञानस्य स्वभावोऽङ्गीकर्तव्यः, येन तुल्येऽपि समानकालभावित्वे रूपाद्येव ज्ञानं परिच्छिनत्ति, नेन्द्रियमिति स्यात्, तच्च क्षणिकत्वेऽपि भावानां तुल्यमेवेति यत्किञ्चिदेतत् ॥५३२-५३४ ॥
साकारे ननु विज्ञाने वैचित्र्यं चेतसो भवेत्। .
नाकाएनङ्कितत्वेऽस्ति प्रत्यासत्तिनिबन्धनम् ॥५३५॥ साकार इत्यादिना परो द्वयोश्चोदयति। यदि साकारं ज्ञानम्, तदा चित्रास्तरणादिषु ज्ञानस्य चित्रत्वं भवेत्। न चैकस्य चित्रत्वं युक्तम्; अतिप्रसङ्गात्। अथानाकारम्, तदा 'नीलास्पदं संवेदनं न पीतस्य' इति व्यवस्थानं न सिध्येत्; सर्वत्र बोधरूपतया विशेषाभावेन प्रत्यासत्तिनिबन्धनाभावात् ॥५३५ ॥ भवद्भिरपीत्यादिना प्रतिविधत्ते
भवद्भिरपि वक्तव्यं तदस्मिन् किञ्चिदुत्तरम्। __ यच्चात्र वः समाधानमस्माकमपिं तद् भवेत् ॥५३६॥
समानमेतद् द्वयोरपि चोद्यम्; यतो भवंताऽपि साकारानाकारपक्षाभ्यामवश्यमन्यतर: [G.182] पक्षोऽङ्गीकर्त्तव्यः; अन्यथाऽर्थग्राहिज्ञानं न सिध्येत्। न चाप्येतत्पक्षद्वयव्यतिरेकेणान्यः प्रकारोऽस्ति, येन ज्ञानमर्थं ग्रहीष्यति। यच्चोभयोर्दोषो न तत्रैकश्चोद्यो युक्तः! तेन यदत्रोत्तरं भवतस्तदस्माकमपि भविष्यति। तथा हि-साकारपक्षे भवताऽवश्यम् 'आकाराणामलीकत्वं सहोपलम्भनियमाद्वैकज्ञानाव्यतिरेकित्वं सत्यपि भेदे' इत्युत्तरमुपवर्णनीयम्; तदेवास्माकं भविष्यति। निराकारपक्षेऽपि पूर्वहेतुकृत एव प्रतिनियतार्थावबोधक: स्वभावो ज्ञानस्य' इति वर्णनीयम्, तदैतदस्माकमपि निराकारविज्ञानवादिनां बौद्धानामुत्तरं भविष्यतीत्यचोद्यमेतत् समाधानमिति परिहारः ॥५३६॥ तदेवं कार्यकारणभावाधिगन्तृ प्रमाणं प्रतिपाद्य, कृतनाशाकृताभ्यागमदोषं परिहरन्नाह
कृतनाशो भवेदेवं कार्यं न जनयेद् यदि।
हेतुरिष्टं न चैवं यत् प्रबन्धे नास्ति हेतुता ॥५३७॥ . १. क्षणत्वादिपक्षे-पा०, गा० । २. वक्तव्ये-जै०।
३. दुत्तरे-जै०।