________________
कर्मफलसम्बन्धपरीक्षा
१५९
स्यादेतद्- बुद्धेर्व्यापारो भावो युक्तः, न हि सोत्तरकालमवतिष्ठते क्षणिकत्वात् ?
इत्याह
क्षणिका हि यथा बुद्धिस्तथैवान्येऽपि जन्मिनः । साधितास्तद्वदेवातो निर्व्यापारमिदं जगत् ॥ ५२८ ॥
[G.180] साधिता इति । स्थिरभावपरीक्षायां सकलत्रस्तुव्यापिनः क्षणभङ्गस्य साधितत्वात् । तद्वदेवेति बुद्धिवदेव । अतइति क्षणिकत्वात् । प्रयोगः - ये क्षणिकास्ते जन्मातिरिक्तव्यापारशून्याः, यथा - बुद्धिः । क्षणिकाश्च बीजादयः पूर्वं प्रसाधिता इति स्वभावहेतुः । पश्चादवस्थित्यभावेन निराधारव्यापारायोगो बाधकं प्रमाणम् । तस्मादानन्तर्यमात्रमेव कार्यकारणभावव्यवस्थानिबन्धनम्, न व्यापार इति स्थितमेतत् ॥ ५२८ ॥
यच्चोक्तम्— 'जायमानश्च गन्धादिः ' (तत्त्व० ४८६ ) इत्यादि, तत्रापि न व्यभिचार इति दर्शयन्नाह -
!
प्रबन्धवृत्त्या गन्धोरिष्टैवान्योऽन्यहेतुता । तदबाधकमेवेदं तद्धेतुत्वप्रसञ्जनम् ॥ ५२९ ॥
रूपरसादीनां हि परस्परं प्रबन्धांपेक्षया सहकारिकारणभावोऽभीष्ट एवं । यथोक्तम्"शक्तिप्रवृत्त्या न विना रसस्यैवान्यकारणम् ।
इत्यतीतैककालानां गतिस्तत्कार्यलिङ्गजा " ॥ (प्र० वा० ३.१० ) इति ॥ ५२९ ॥ ननु चाग्नेरिव गवाश्वादेरप्यनन्तरं कदाचिद् धूमो भवति, तत् कथमानन्तर्यं न व्यभिचारि ? इत्याह
अन्यानन्तरभावेऽपि किञ्चिदेव च कारणम् ।
तथैव नियमादिष्टं तुल्यं चैतत् स्थिरेष्वपि ॥ ५३० ॥
न हि वयमानन्तर्यमात्रं कार्यकारणभावाधिगतिनिबन्धनं ब्रूमः, किं तर्हि ? यन्नियतम् । तथा हि-यस्यैवानन्तरं यद्भवति तत्तस्य कारणमिष्यते । न च धूमो गवादेरेवानन्तरं भवति, असत्यपि ग़वादौ तस्य भावात् । किञ्च - भवतोऽप्यत्र स्थिरवादिनश्चोद्यमेतदवतरति — कस्माद् गवादेरनन्तरं धूमो भवन्नपि तत्कार्यं न भवतीति ? ॥ ५३० ॥
अत्र पर आह
यो
यत्र व्यापृतः कार्ये स हेतुस्तस्य चेन्मतः ।
यस्मिन् नियतसद्भावो यः स हेतुरितीष्यताम् ॥ ५३१ ॥
यस्मिन्नित्यादिना स्वपक्षेऽपि परिहारमाह ॥ ५३१ ॥
१. 7- पा०, गा० ।
एवं तावत् क्षणिकत्वेऽपि भावानां कार्यकारणभाव उपपादितः । इदानीं तदधिगन्तृ
प्रमाणोपपादनार्थमाह
भावाभावाविमौ सिद्धौ प्रत्यक्षानुपलम्भतः ।
यदि साकारविज्ञानविज्ञेयं वस्तु वो मतम् ॥ ५३२॥ . अथाऽनाकारधीवेद्यं वस्तु युष्माभिरिष्यते ।
२. चेन्- पा०, गा० ।
३. यदा०- पा. गा।