SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १५८ तत्वसंग्रहे हेतुरसौ भवन् व्यापारान्तरसमावेशरहित एव भवतीति स एव दृष्टान्तो भविष्यतीति भावः ॥ ५२५ ॥ न चापि सत्ताव्यतिरेकेण व्यापारः पदार्थस्यास्ति; उपलब्धिलक्षणप्राप्तस्यानुपलब्धेरिति दर्शयति दृश्यत्वाभिमतं नैवं वयं चोपलभामहे । तत् कथं तस्य सम्बन्धमङ्गीकुर्मो निबन्धनम् ! ॥ ५२६ ॥ [G.179] दृश्यत्वेन हि भवतां व्यापारोऽभिमतः, यथोक्तं कुमारिले - " प्राक्कार्यनिष्पत्तेर्व्यापारो यस्य दृश्यते" (श्लो० वा० श० अ० ४३३ ) इत्यादि । अपि च-स व्यापारात्मा पदार्थस्तस्माद्व्यापारवतो भावादर्थान्तरभूतो वा स्याद् ? अनर्थान्तरभूतो वा, वस्तुसतः प्रकारान्तराभावात्, उभयानुभयविकल्पस्यासम्भव एव ? तत्र यद्यर्थान्तरभूतः, तदार्थस्य पदार्थस्य कारणत्वं न प्राप्नोति; तद्व्यतिरेकिणो व्यापारस्यैव कारणभावात् । व्यापारेण सम्बन्धात्तस्यापि कारणभावोऽस्तीति चेत् ? न; परस्परानुपकारिणोः सम्बन्धासिद्धेः । अथोपक्रियत एव व्यापारः पदार्थेनेति स्यात् ? तदप्ययुक्तम्; न हि तस्यापरो व्यापारोऽस्ति, येन व्यापारमुपकुर्यात् । अन्यथा ह्यनवस्थायां व्यापाराणामेव परस्परं घटनात् पदार्थेन सह व्यापारस्य न कदापि सम्बन्धः सिध्येत् । अथ व्यापारान्तरमन्तरेणैव पदार्थो व्यापारमुपकरोतीति स्यात्, तदा कार्यमपि व्यापारवद्व्यापाररहित एव सत्तामात्रेण किं नोपकुर्वीत, येन व्यापारोऽर्थान्तरभूतः कल्प्यते ! न हि तस्य कार्येऽपि सत्तामात्रेणोपयोगं व्रजतः कश्चित् प्रतिरोद्धाऽस्ति । तस्मान्नार्थान्तरभूतो व्यापारो युक्तः । अथानर्थान्तरभूत इति पक्षः, तदा सिद्धम् - सत्तैव व्यापृतिरिति ; पदार्थस्वभावस्यैव सत्ताशब्दवाच्यत्वात् । ततश्च न सिध्यति जन्मातिरेकित्वं व्यापारस्य ॥ ५२६ ॥ अपि च-यथा बुद्धिरर्थप्रतिच्छित्तौ जायमानैव व्यापाररहितापि सत्तामात्रेण व्याप्रियते, तथा सर्वेषामपि भावानां हेतुत्वमुत्तरकालभाविव्यापारमन्तरेण भविष्यति - इत्येतद्दर्शयतिबुद्धेर्यथा च जन्मैव प्रमाणत्वं निरुध्यते । तथैव सर्वभावेषु तद्धेतुत्वं न किं मतम् ॥ ५२७ ॥ न हि बुद्धेर्जन्मातिरेकी व्यापारोऽस्ति । तथा हि- " सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् " ( मी० सू० १.१.४ ) इत्यत्र सूत्रे जन्मग्रहणस्य प्रयोजनं वर्णयता कुमारिलेनोक्तम् "बुद्धिजन्मेति च प्राह' जायमानप्रमाणताम् । व्यापारः कारणानां हि दृष्टो जन्मातिरेकतः । प्रमाणेsपि तथा मा भूदिति जन्म विवक्ष्यते " ॥ ( श्रो० वा०, चो० ५३-५४ ) इति । तद्धेतुत्वमिति । तत्-कारणजन्म हेतुर्येषां ते तथोक्ताः, तद्भावस्तत्त्वम् ॥ ५२७ ॥ २-२. चाप्याह- तत्रस्थः पाठः । ३. कारकाणां तत्रस्थः पाठः । १. स. च- पा०. गा।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy