________________
१५७
कर्मफलसम्बन्धपरीक्षा • तद्भावभावितामात्राद् व्यापारोऽप्यवकल्पितः।
हेतुत्वमेति तद्वान् वा तदेवास्तु ततो वरम्॥५२२॥ अवकल्पित इति । भवद्भिर्योऽन्य उभयानुभयरूपो वा व्यापारः परिकल्पित इत्यर्थः । तद्वानिति व्यापारवान्। तद्भावभावितामात्राद्धेतुत्वमेतीति प्रकृतेन सम्बन्धः । तदेवेति विलक्षणव्यापाररहितं वस्तुमात्रं हेतुरस्त्वित्यर्थः ॥ ५२२॥ __कस्तत्रातिशयो येन वरमित्युच्यते? इत्याह
भावे सति हि दृश्यन्ते 'बीजादावङ्करादयः।
न तु व्यापारसद्भावे भवत् किञ्चित् समीक्ष्यते॥५२३॥ भावे=भावमात्रे, बीजादौ व्यापारान्तरसमावेशशून्ये सतीत्यर्थः। एतेन [G.178] भावमात्रगतान्वयव्यतिरेकानुविधायित्वमेव कार्याणां सिद्धम्, न तु व्यापारगतान्वयादयनुविधायित्वमिति दर्शितं भवति ॥ ५२३॥ .
स्यादेतत्-यद्यपि व्यापारगतान्वयाद्यनुविधानं कार्यस्य न सिद्धम्, तथापि तस्य कारणभावो भविष्यति? इत्याह
अदृष्टशक्तेर्हेतुत्वे · कल्प्यमानेऽपि नेष्यते।
किमन्यस्यापि हेतुत्वं विशेषो वाऽस्य कस्ततः॥५२४॥ एवं हि व्यापारमपि हेतुं प्रकल्प्यापरोऽपि कल्पनीयः स्यात्; अदृष्टशक्तित्वेन विशेषाभावात् । ततश्चानवस्था स्यात्। अथान्यो न कल्प्यते निबन्धनाभावात्, तदा व्यापारस्यापि कल्पना मा भूत; तत्रापि निबन्धनाभावस्य तुल्यत्वात्।
किञ्च-योऽप्यसौ व्यापारः कार्य जनयति, सकिं व्यापारान्तरसमावेशाद्? आहोस्वित्, सत्तामात्रेण? यदि व्यापारान्तरसमावेशात्, तदा व्यापारान्तरस्यैव कारणत्वं स्यात्, न व्यापारस्य; तस्यापि व्यापारान्तरस्य कारणत्वे तुल्यः पर्यनुयोगः । तस्यापि हि यदि व्यापारान्तरसमावेशात् कारणभावः कल्प्येत, तदाऽनवस्था स्यात् ॥५२४॥
__ अथ सत्तामात्रेणेति पक्षः, तदा पदार्थोऽपि व्यापारवत्सत्तामात्रेणैव कार्यं जनयिष्यतीति व्यर्था व्यापारकल्पनेति दर्शयति- .
अन्येन च विना हेतुर्यथा व्यापार इष्यते। .. कार्येऽथ भावे वा तद्वत् किमन्येऽपि न हेतवः ॥५२५॥*
यथैव हि व्यापारोऽन्येन व्यापारान्तरेण विनाऽपि कार्येऽङ्करादिके हेतुरिष्यते, तद्वदन्येऽपि भावा विलक्षणव्यापारशून्या एव हेतवः किं नेष्यन्ते!
अथापि स्यात्-न व्यापारः कार्यं साक्षादुपकरोति, किं तर्हि ? भावमेव व्यापारवन्तम्? इत्याह-अथ वा भाव इत्यादि। हेतुरिष्यते' इति प्रकृतेन सम्बन्धः । भावेऽपि हि व्यापारवति १. बीजादेवाङ्करोदया:- पा०, गा०। २-२. कार्यस्य वा भवेत्-- पा०, गा० । *'इतोऽग्रेऽस्त्येका ५२६तमकारिका, सा च त्रुटिता'- इति मन्यमानो गा० संस्करणसम्पादकोऽत्र भ्रान्तः; पा० पुस्तके लेखकप्रमादेन पाठस्य व्यत्यस्तत्वात, तां स्वीकृत्यैव चाग्रे कारिकाणां क्रमामाग्रन्थपरिसमाप्ति परिवर्धितवान्। भोटभाषानुवादेऽपीयं कारिका नोपलभ्यते- इति सुधियो विभावयन्तु। ३. तवापि-पा०, गा०।