________________
तत्वसंग्रहे
स्वकारणाऽऽश्रूषात् स्वजन्मनि व्यापारं प्रतिपद्येत, तदा सहभाविता नियमेन स्यात्; यावता निर्व्यापारमेवेदं विश्वम्, न हि परमार्थतः कश्चित् कर्त्ता कर्म वास्ति, अन्यत्र धर्मसङ्केतादिति समुदायार्थः । प्रकृतिमिति कारणम् ॥ ५१६-५१७॥
यद्येवम्, यदि निर्व्यापारमेव कार्यं कारणं वा, तत्कथं भवन्ति वक्तारः - धूममग्निर्जनयति, धूमोऽग्निमाश्रित्योत्पद्यते ? इत्याह
१५६
नियमादात्महेतूत्थात् प्रथमक्षणभाविनः । तोऽनन्तरं जातं द्वितीयक्षणसन्निधिः ॥ ५१८ ॥
स्वहेतुप्रत्ययसमुत्थापितात् कारणस्य शक्तिप्रतिनियमाद्धेतोर्यत् कार्यं यतः 'प्रथमक्षणभाविन: कारणज्जातं किञ्चिद्विशिष्टम्, द्वितीये क्षणे सन्निधिः = सद्भावो यस्येति विग्रहः । तत्तज्जनयतीत्याहुरव्यापारेऽपि वस्तुनि ।
तत्कारणं तत्कार्यं जनयतीत्युच्यते । जनयतीत्युपलक्षणम्, तत्तदाश्रित्योत्पद्यत इत्यपि विज्ञेयम् । के पुनस्त एवमाहुः ?
विवक्षामात्रसम्भूतसङ्केतानुविधायिनः ।। ५१९ ॥ बहिरर्थनिरपेक्षविवक्षाभाविसङ्केतानुरूपव्यवहारकारिणो व्यवहर्त्तार एवमाहुरित्यर्थः
।। ५१८-५१९ ॥
ननु य उत्पद्य व्यापारं नाविशेत् विशेषोत्पादार्थं स कथं हेतुः स्यात् ? इत्याहजन्मातिरिक्तकालेन व्यापारेणात्र किं फलम् ।
सत्तैव व्यापृतिस्तस्यां सत्यां कार्योदयो यतः ॥ ५२० ॥
[G.177] कारणसत्तासमनन्तरमेव कार्यस्य निष्पन्नत्वादकिञ्चित्कर एव कार्यस्य जन्मोत्तरकालभावी व्यापारः कार्ये । तथा हि- व्यापारो नाम कारणस्य क उच्यते ? यदनन्तरमेव कार्यम् उदयमासादयति, कारणसत्तानन्तरमेव च कार्यमुद्भवतीति सत्तैव व्यापारशब्दवाच्याऽस्तु किं जन्मातिरेकिणा व्यापारेण कल्पितेन ! ॥ ५२० ॥
यद्येवम्, असति भावानां व्यापारे कथमिदमवधीयते - कार्यस्य कारणेऽपेक्षा, कारणस्य च कार्ये व्यापार इति ? आह
य
आनन्तर्यनियमः
सैवापेक्षाभिधीयते ।
कार्योदये सदा भावो व्यापारः कारणस्य च ॥ ५२१ ॥ इदमेव हि कार्यस्य कारणेऽपेक्षा यत्तदनन्तरभावित्वम् । कारणस्यापि कार्येऽयमेव व्यापारो यत्कार्योदयकाले सदा सन्निहितत्वम् ॥ ५२१ ॥
1
अपि च-व्यापारस्य व्यापारवतो वा भावस्य कार्यं प्रति हेतुभावस्तद्भावभावित्वादेव भवता ग्रहीतव्यः, न ह्यन्वयव्यतिरेकाभ्यामन्यः कार्यकारणभावाधिगमेऽभ्युपायोऽस्ति; ततश्चैवं सति वस्तुमात्रस्यापि किमिति कारणभावो न गृह्यते। न हि कार्यस्य वस्तुमात्रगतान्वयव्यतिरेकानुविधायित्वं न प्रसिद्धम्, अतस्तदेव वस्तुमात्रं वरं कारणमस्तु यद्गतान्वयव्यतिरेकानुविधायित्वं कार्यस्य सिद्धमित्येतद्दर्शयति
१. क्षणप्रथम० पा०, गा० ।
२-२. व्यापारकारणस्य- जै० ।