________________
कर्मफलसम्बन्धपरीक्षा
१५५ अभूतभावरूपत्वाजन्मनो नान्यथा स्थितिः॥५११॥ नान्यथा स्थितिरिति । अन्यथा स्थिति:-नियमो न भवेदिति यावत् । अनवस्था भवेदिति यावत् । यदि हि जातमपि जन्येत, तदा पुनरप्यविशेषात् तस्य जननप्रसङ्गः। ततश्चानवस्था जन्मनां स्यात् । कारणानां च व्यापारानुपरतिः, कारणस्यापि जन्यत्वप्रसङ्गः; विशेषाभावात्। ततश्च 'इदं कारणमिदं कार्यम्' इति व्यवस्था न स्यात्॥५११॥ तस्मादित्यादिनोपसंहृत्य स्थितपक्षस्यादुष्टतां दर्शयति--
तस्मादनष्टात्तद्धेतोः प्रथमक्षणभाविनः । कार्यमुत्पद्यते शक्ताद् द्वितीयक्षण एव तु॥५१२॥ विनष्टात्तु भवेत् कार्य तृतीयादिक्षणे यदि। विपाकहेतोः प्रध्वस्ताद् तथा कार्य प्रचक्षते ॥५१३॥ यौगपद्यप्रसङ्गोऽपि प्रथमे यदि तद्भवेत्।
सहभूहेतुवत्तच्च न युक्त्या युज्यते पुनः॥५१४॥ विनष्टविकल्पस्त्वनभ्युपगमादेवायुक्तः। तथा हि-यदि तृतीयादिषु क्षणेषु कार्य भवतीत्यभ्युपेतं भवेत्, तथा वैभाषिकैरङ्गीकृतम्-'एकोऽतीत: प्रयच्छति' इति; तदा विनष्टात् कारणात् कार्योत्पादोऽङ्गीकृत: स्यात् । न चायं पक्षोऽस्माकम् अयुक्त्युपेतत्वात्। यौगपद्यप्रसङ्गोऽपि कदाचिद्भवेत, यदि प्रथम एव क्षणो कार्यमिष्यते। तथा तैरेव वैभाषिकैः सहभूहेतुरिष्यते । तच्चैतदयुक्तम् ॥ ५१२-५१४॥
कस्मात् ? इत्याह- . . • असतः प्रागसामर्थ्यात् सामर्थ्य कार्यसम्भवात्।
कार्यकारणयोः स्पष्टं यौगपद्यं विरुध्यते॥५१५॥ [G.176) सहभूतं हि कार्यं जनयन्-हेतुरनुत्पन्नो वा जनयेत्, उत्पन्नो वा। न तावदनुत्पन्नः; तस्य कार्योत्पत्तेः प्रागसत्त्वात्; असतश्चाशेषसामर्थ्यशून्यत्वात्।।
यदा तमुत्पन्नः, तदा समर्थत्वाजनयिष्यतीति चेत् ? आह-सामर्थ्य कार्यसम्भवादिति । यदा हि तस्योत्पन्नावस्थायां सामर्थ्यम्, तदा कार्यमपि तत्स्वभाववदेवोत्पन्नमिति क्वास्य सामर्थ्यमुपयोगमश्रुवीत! तस्मादनुमानप्रमाणविरुद्धः कार्यकारणयौगपद्याभ्युपगमः ॥५१५ ॥
ननु कार्यकारणभावो हि कर्मकर्तभावः, सच भिन्नकालो विरुध्यते, न हि घटकुलालयोरयौगपद्ये. सति कर्मकर्तृभावो दृष्टः? इत्याह
न हि तत्कार्यमात्मीयं सन्दंशेनेव कारणम्। गृहीत्वा जनयत्येतद् यौगपद्यं यतो भवेत्॥५१६॥ नापि गाढं समालिङ्गय प्रकृतिं जायते फलम्।
कामीव दयिता येन सकृद्धावस्तयोर्भवेत्॥५१७॥ यदि हि सन्दंशग्रहणन्यायेन कारणं कार्योत्पत्तौ व्याप्रियेत, कार्यं वा वनितोपगूहनवत् १. च वक्ष्यते- पा०, गा० ।