________________
१५४
तत्वसंग्रहे नियता तत्र सूक्ष्मोऽपि नांशोऽस्त्यनुगमात्मकः ॥५०६॥ अन्वयः=अनुगमः, कस्यचित् स्वभावस्येति शेषः ॥५०५-५०६॥ {G.174] स्यादेतत्- बीजादिष्वप्यन्वयोऽस्त्येव। यथोक्त मुद्द्योतकरेण- "तत्रापि ये बीजावयवास्ते पूर्वव्यूहपरित्यागेन व्यूहान्तरमापद्यन्ते, व्यूहान्तरापत्तौ च पृथिवीधातुरब्धातुना संगृहीतमान्तरेण तेजसा पच्यमानो रसद्रव्यं निवर्तयति। स रसः पूर्वावयवसहितोऽङ्करादिभावमापद्यते" ( ) इति । तत्कथं तत्र सूक्ष्मोऽपि नांशोऽस्तीत्युच्यते? इत्याह
क्षित्यादीनामवैशिष्टये बीजाङ्कुरलतादिषु। . न भेदो युक्त ऐकात्म्याद् भेदसिद्धा' निरन्वया ॥५०५। . तस्मात् कर्मफलादीनां भावाभावप्रसिद्धये। .''
कार्यकारणतासिद्धौ यत्नः कार्यः परैरलम्॥५०८॥ एतदुक्तं भवति- यदि पृथिव्यादय उत्तरस्मिन् सन्निवेशे वर्तमाना अपरित्यक्तप्राक्तनस्वभावा एव वर्तन्ते, तदा न तेषां पूर्वव्यूहत्यागो व्यूहान्तरापत्तिश्चोपपद्यते, तादात्म्यात्; पूर्ववत्। ततो बीजाङ्करादीनां परस्परं भेदो न प्राप्नोति; एकस्वभावत्वात्। अथ भेदोऽङ्गीक्रियतेऽङ्कुरादीनाम्; तदा नियमेन प्राक्तनस्वभावपरित्यामे सति क्षित्यादीनां पूर्वव्यूहत्यागो व्यूहान्तरापत्तिश्चाङ्गीकर्तव्या, अन्यथा भेद एव न स्यादित्युक्तम्। ततश्चापरापूरस्वभावानामुत्पत्तेः कुतोऽन्वेतृत्वम् ! यतश्चैवं कार्यकारणभावे साधिते सर्वं कर्मफलसम्बन्धादि घटते, दूषिते च विघटते; तस्मात् कर्मफलादीनां भावसिद्धये कार्यकारणतासिद्धौ यत्नो विधातव्यः । परैः उत्तमदर्शनानुसारितयोत्कृष्टैबौद्धैरिति यावत्। तेषां चाभावसिद्धये तस्या एव कार्यकारणताया अभावसिद्धौ यत्नः कार्य: परैः तीथि कैरित्यर्थः । कार्यकारणतासिद्धौ' इत्येतद् द्विरावर्तनीयम्। एकत्राऽकारप्रश्रूषः कार्यः ॥ ५०७-५०८ ॥
अत्र यौ नष्टानष्टविकल्पौ परेण कृतौ, तदुत्सारणेन कार्यकारणभावं तावत् सर्वव्यवस्थामूलं साधयन्नाह
अत्रोच्यते-द्वितीये हि क्षणे कार्य प्रजायते। .. प्रथमे कारणं जातमविनष्टं तदा च तत्॥५०९॥ क्षणिकत्वात्तु तत्कार्यक्षणकाले न वर्त्तते।
वृत्तौ वा विफलं कार्यं निर्वृत्तं तद्यतस्तदा ॥५१०॥ अविनष्टादेव कारणात् कार्यं भवतीति नः पक्षः, न चैवं यौगपद्यप्रसङ्गः । [G.175] तथा हि-'प्रथमक्षणभाविकारणमासादितात्मलाभमविनष्टमेव प्रतीत्य द्वितीये क्षणे कार्य प्रजायते। तच्च तथा जायमानमविनष्टादेव जायते; प्रथमे क्षणे तस्याविनष्टत्वात् । कार्यसत्ताकालं चन कारणमनुवर्तते; क्षणिकतयाऽनवस्थानात्। सत्यामपि चानुवृत्तौ न तदानीं तस्य कारणत्वम्; निष्पन्ने कार्ये तस्याकिञ्चित्करत्वात् ।। ५०९-५१०॥ तदेवाकिञ्चित्करत्वं दर्शयति
न च जातं पुरस्तेन शक्यं जनयितुं पुनः। १. तदा सिद्धा-पा०, गा०।
२. ०कारणतासादित-पा०, गा० ।