________________
१५३
कर्मफलसम्बन्धपरीक्षा अन्वय्यात्मवियोगेऽपि तथैवाध्यात्मिके स्थितिः॥५०२॥ यथैव हि बीजादेरङ्करादिषु नियता शक्तिरन्तरेणाप्यातत्मानमधिष्ठातारम्, तथाध्यात्मिकेऽपि वस्तुनि भविष्यति। न हि बीजादिः शरीरवदुपभोगायतनत्वेनात्मनाऽधिष्ठितः । अन्यथा हि 'नेदं निरात्मकं जीवच्छरीरम्, अप्राणादिमत्त्वप्रसङ्गात्' इत्येतन्नोपपद्यते। घटादौ किलात्मनिवृत्तौ प्राणादि निवर्तमानं दृष्टमिति व्यतिरेकिता हेतोः सिध्येत् । यदि तु घटादेरपि सात्मकत्वं भवेत्, तत् कथमयं हेतुर्व्यतिरेकी भवेत् ! अन्वय्यात्मवियोगेऽपीति । अन्वयिनः कस्यचित् स्ववियोगेऽपीत्यर्थः ॥ ५०२॥ का पुनरसौ स्थितिः? इत्याह
पारम्पर्येण साक्षाद्वा क्वचित् किञ्चिद्धि शक्तिमत्।
ततः । कर्मफलादीनां सम्बन्ध उपपद्यते॥५०३॥ [G.173] यथैव हि बाह्ये नियता. हेतुफलव्यवस्था, तथैवाध्यात्मिके संस्कारराशावियम्; कारणशक्तिनियमात्। कुतश्चिदेव हि शुभाशुकर्मणः क्षणपरम्परया नियतं फलमिष्टमनिष्टं वाऽऽविर्भवति-रूपाद्यनुभवात् स्मरणम्, विमर्शानिर्णयः, स्थापनादन्वेषणम्, अभिवाञ्छतोऽर्थदर्शनम्, ततः कुतूहलविरतिरिति सर्वमविरुद्धम्। न हि क्वचिदेकपदार्थान्वयित्वेन स्मरणादयो बौद्धस्य प्रसिद्धाः, किं तर्हि ? इदं प्रत्ययमात्रम् । यथोक्तम्- "अस्ति कर्मास्ति फलम्, कारकस्तु नोपलभ्यते य इमान् स्कन्धान्निक्षिपति, अन्याँश्च स्कन्धानुपादत्ते, अन्यत्र धर्मसङ्केतात् । तत्रायं धर्मसङ्केतः, यदुतास्मिन् सतीदं भवति, अस्योत्पादादिदमुत्पद्यते" () इति । कर्मफलादीनामित्यादिशब्देन स्मृत्यादिपरिग्रहः । सम्बन्धस्तु जन्यजनकभावः ॥५०३ ॥
यद्येवम्, कथं तर्हि लोके शास्त्रे च तत्तत्पुद्गलमधिकृत्योच्यते- “अनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यति" ? इत्याह
. कर्तृत्वादिव्यवस्था तु सन्तानैक्यविवक्षया।
. कल्पनारोपितैवेष्टा नाङ्गं सा तत्त्वसंस्थितेः॥५०४॥ प्रचुरतराज्ञानतिमिरसङ्घातोपहतज्ञानालोको लोक आत्मनि तत्त्वान्यत्वासत्त्वादिविचारमवधूय विशिष्टहेतुफलभावनियतरूपाणां संस्काराणां प्रबन्धमेकत्वेनाध्यवसाय ‘स एवाहं करोमि' इति व्यवहरति, मुक्तये च प्रवर्तते। तदभिमानानुरोधेन च भगवन्तस्तथागताः समुच्छेददृष्टिप्रपाततो विनेयजनरिरक्षयिषया सन्तानैकतां दर्शयन्तः कर्तृत्वादि व्यवस्थापयन्ति । तथाविधाया एव व्यवस्थातो वस्तुसिद्धिरिति चेदाह-नाङ्ग सेत्यादि । तत्त्वपरीक्षापराङ्मुखमतीनां संवृतिपतितानां बालजनानामभिनिवेशवशेन शक्यं तत्त्वं व्यवस्थापयितुम्; तदभिनिवेशस्य नैरात्म्यक्षणभङ्गविहितप्रमाणबाधितत्वात् ।। ५०४॥
बीजादिषु किलान्वय्यात्मवियोगोऽसिद्ध इति दृष्टान्तासिद्धिं मन्यमानस्य परस्य चोद्यमाशङ्कयन्नाह
अन्वयासम्भवे सैव कार्यकारणता भवेत्। विशिष्टा युज्यते यद्वत् सन्तानान्तरभाविभिः॥५०५॥ ननु बीजाङ्कुरादीनां कार्यकारणतेक्ष्यते।