________________
तत्वसंग्रहे
मोक्षावपि न प्राप्त इति दर्शयन्नाहरागादिनिगडैर्बद्धः क्षणोऽन्यो भववारके ।
अबद्धो मुच्यते चान्य इतीदं नावबुध्यते ॥ ४९६ ॥
अन्यो हि क्षणो रागादिभिर्बद्धः, अन्यस्तु मुच्यत इत्येतन्नावबुध्यते = न सम्भाव्यत इति यावत् । भववारक इति । भवः संसारः, स एव वारकम् = बन्धनागारम् ॥ ४९६ ॥ प्रयत्नश्च मोक्षार्थो व्यर्थ:, मोक्षाभावादिति दर्शयन्नाह
१५२
मोक्षो नैव हि बद्धस्य कदाचिदपि सम्भवी । एकान्तनाशतस्तेन व्यर्थो मुक्त्यर्थिनां क्षणः ॥ ४९७ ॥ नन्वबद्धस्यैव मोक्षो भविष्यति, तत् कोऽत्र विरोध: ? इत्याहमोक्षमासादयन् दृष्टो बद्धः स निगडादिभिः ।
अबद्धो मुक्तिमेतीति दृष्टव्याहतमीदृशम् ॥ ४९८ ॥ य एव हि बद्धः स एव मुच्यते - इति लोके प्रतीतम्, दृष्टं च । अबद्धस्य तु मोक्षप्रतिज्ञानं लोकप्रतीत्या, प्रत्यक्षेण च बाध्यत इति प्रत्यक्षप्रतीतिविरोधः प्रतिज्ञाया इति भावः ॥ ४९८ ॥
अनुमानबाधामप्याह
-
एकाधिकरणावेतौ बन्धमोक्षौं तथा स्थितेः ।
लौकिकाविव तौ तेन सर्वं चारुतरं स्थितम् ॥ ४९९ ॥
प्रयोग:- यौ बन्धमोक्षौ तावेकाधिकरणौ, यथा - लौकिकौ बन्धमोक्षौ । बन्धमोक्ष च विवादास्पदीभूतावेतावनुशयतद्विसंयोगलक्षणौ बन्धमोक्षाविति स्वभावहेतुः । तथा स्थितिरिति । बन्धमोक्षात्मना स्थि:, बन्धमोक्षरूपत्वादित्यर्थ: । [G. 172] ताविति बन्धमोक्षौ । अतश्चैकस्याधिकरणस्यात्मनः सिद्धेः सर्वकर्मफलसम्बन्धादि चारुतरं स्थितम् = शोभनतरमवस्थितमित्यर्थः । यथोक्तदोषाभावात् ॥ ४९९ ॥
एतेनैव प्रकारेण स्मृत्यादीनामसम्भवः । एकाधिकरणाभावात् क्षणक्षयिषु वस्तुषु ॥ ५०० ॥
एकस्य कर्तुरभावात् । पूर्वोक्तानां स्मृतिनिश्चयस्वयंनिहितप्रत्यनुमार्गणादीनामसम्भवो बोद्धव्यः; तत्रापि भिन्नाधिकरणत्वे दृष्टादिविरोधप्रसङ्गात् । न हि चैत्रेऽनुभवितरि सन्दिहाने निधातरि वाञ्छावति च सति मैत्रस्य स्मृतिनिश्चयानुमार्गणकुतूहलविरत्यादयः सम्भवन्ति
॥ ५०० ॥
अत्राभिधीयत इत्यादिना प्रतिविधत्ते
अत्राभिधीयते सर्वकार्यकारणतास्थितौ ।
सत्यामव्याहता एते सिध्यन्त्येवं निरात्मसु ॥ ५०१ ॥ .
सत्यपि हि भावानां नैरात्म्ये कार्यकारणताप्रभावितेयं कर्मफलसम्बन्धादिव्यवस्था । सति च कार्यकारणभावे सर्वमविरुद्धमेवेति म किञ्चित् क्षीयते ।। ५०१ ॥
स्यादेतत्- स एव कार्यकारणभावप्रतिनियमो नान्तरेणात्मानमुपपद्यते ? इत्याहयथा हि नियता शक्तिर्बीजादेरंकुरादिषु ।