________________
कर्मफलसम्बन्धपरीक्षा
१५१ कार्यकारणभावोऽपि प्रत्यक्षानुपलम्भतः।
नेयर्ति सिद्धिं भावानां स्वभावानुपलम्भनात्॥४९१॥ [G.170] प्रत्यक्षानुलम्भसाधनो हि कार्यकारणभावः, क्षणिकत्वे च भावानां स्वज्ञानकालेऽनवस्थानादप्रत्यक्षतैव; समानकालं कार्यकारणभावानुपपत्तेः । ततश्च प्रत्यक्षानुपलम्भयोरभाव एव; अनन्यसंसृष्टवस्तूपलम्भात्मरूपत्वेनानुपलम्भस्यापि प्रत्यक्षविशेषात्मत्वात्। अतः पदार्थोपलम्भाभावे तस्याप्ययोग एवेति कथं प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाव: स्यात् ! ॥ ४९०-४९१॥
भवतु नामोपलम्भो वस्तुनः, तथापि पूर्वोत्तरयोः क्षणयोः प्रतिसन्धातुरेकस्य कस्यचिदभावात् सम्बन्धो न सिध्यतीति दर्शयन्नाह
को वा व्यवस्थितः कर्ता सन्धत्ते क्रमवद्गतिम्।
अस्य दृष्टाविदं दृष्टं नास्यादृष्टौ तु लक्ष्यते॥४९२॥ गति:=उपलब्धिः । क्रमवती चासौ गतिश्चेति क्रमवद्गतिः, तां कः प्रतिसन्धत्ते= घटयति, नैव कश्चित् । यदि हि कश्चिद्- 'अस्याग्नेरुपलम्भादिदं धूमाधुपलब्धमस्यानुपलब्धौ नोपलभ्यते-इत्येवं क्रमवतीं गतिमेककर्तृत्वेन प्रतिसन्दधीत, तदा स्यात् कार्यकारणभावसिद्धिः, स नास्ति प्रतिसन्धाता त्वन्मतेनेति न कार्यकारणभावः सिध्येदित्यर्थः ॥ ४९२॥
इदानी प्रत्यभिज्ञानानुपपत्तिं दर्शयन्नाह. क्षणभङ्गिषु भावेषु प्रत्यभिज्ञा च दुर्घटा।
न ह्यन्यतरदृष्टोऽर्थः । प्रत्यभिज्ञायते परैः॥ ४९३॥ य एब मया पूर्वं दृष्टोऽर्थः स एवायमेतर्हि दृश्यते-इत्येवं पूर्वोत्तरयोर्दर्शनयोरेकविषयतया च यद्धटनं तत् प्रत्यभिज्ञानम्। तच्च सर्वभावानां क्षणभङ्गित्वे सति नोपपद्यते; ज्ञातुर्शायमानस्य कस्यचिदेकस्याभावात् । न हि देवदत्तेन दृष्टमर्थं विष्णुमित्रः प्रत्यभिजानीते। अन्यतरग्रहणमुपलक्षणम् । नाप्यन्योऽर्थः प्रत्यभिज्ञायत इत्यपि द्रष्टव्यम्॥ ४९३ ॥
ननु लूनपुनर्जातकेशनखादिष्विव भेदेऽपि सादृश्यात् प्रत्यभिज्ञानं भविष्यति? इत्येतदाशङ्कयाह
.. 'सादृश्यात् प्रत्यभिज्ञानं भिन्ने केशादिके भवेत्।
ज्ञातुरेकस्य सद्भावाद् विभेदे त्वनिबन्धनम्॥४९४॥ प्रतिसन्धानकारी च योकोऽर्थो न विद्यते।
रूपे दृष्टेऽभिलाषादिस्तत् कथं स्याद् रसादिषु॥४९५॥ [G.171] यदि ह्येको ज्ञाता भवेत्, तदा स्यात् प्रतिसन्धातृवशाज्ज्ञेयस्य भेदेऽपि सादृश्यकृतं प्रत्यभिज्ञानम्। द्विभेदे तु-द्वयोतिज्ञेययोर्भेदः द्विभेदः, तमिन् सत्यनिबन्धनमेव प्रत्यभिज्ञानम्। अपि च- यदि न कश्चिदेकः प्रतिसन्धाता पुरुषो भवेत्, तदा यदेतन्मातुलुङ्गफलादिरूपे दृष्टे तद्रूपाविनाभाविषु रसादिषु स्मरणपूर्वमभिलक्षणम्, परिभोगाय च प्रवृत्तिः, तत् कथं भवेत् ! न ह्यन्येन दृष्टेऽन्यस्याभिलाषादिर्भवेत् ॥ ४९४-४९५ ॥ १-१. ते पूर्तिसिद्धि-पा०; नैवेति सिद्धिं-गा० ।