________________
१५०
तत्वसंग्रहे
न कार्यकारणत्वे स्तस्तद्व्यापाराननुग्रहात् ॥ ४८५ ॥ नाशोत्पादयोः समत्वेऽपि कल्प्यमाने न नाशोत्पादयोस्तद्वतोर्वा कार्यकारणत्वे स्तः= सम्भवतः; तयोः परस्परानपेक्षत्वात् । कमथनपेक्षत्वम् ? इत्याह- तद्व्यापाराननुग्रहादिति । तस्य=नाशस्य तद्वतो वा व्यापारेण कार्यस्याननुग्रहात् = अननुगृहीतत्वादित्यर्थः । नाशस्य हि नीरूपत्वाद् व्यापाराभावः । हेत्वभिमतस्यापि वस्तुनः कार्यसत्ताकाले सन्निधानाभावाद् व्यापाराभावः ॥ ४८५ ॥
स्यादेतद्-अन्तरेणापि व्यापारमानन्तर्यमात्रेण हेतुफलभावो भविष्यति ? इत्याहजायमानश्च गन्धादिर्घटरूपे विनश्यति ।
तत्कार्यं नेष्यते यद्वत् तथा रूपान्तराण्यपि ॥ ४८६ ॥
यदि यदनन्तरं यज्जायते तत्तस्य कार्यमिति स्यात्, तदा घटादिसन्निवेशिनो [G.169] रूपक्षणस्यानन्तरं समानजातीयरूपक्षणवत् तत्कलापान्तर्गत एव गन्धादिर्जायत इति सोऽपि तत्कार्यं स्यात् । न चासौ सत्यप्यानन्तर्ये तत्कार्यमिष्यते । न हि भौतिकानामन्योऽन्यं हेतुफलभावोऽस्ति, यथा- भूतानाम्; भिन्नसन्तानत्वादिति परो मन्यते । तथा रूपान्तराण्यपीति । समानजातीयरूपक्षणान्तराणि नैव रूपस्यानन्तर्यमात्रेण तत्कार्यतया ग्रहीतव्यानि, मा भूदतिप्रसङ्ग इति भावः ॥ ४८६ ॥
तदेवमानन्तर्यमात्रं कारणभाव्यवस्थानिबन्धनं न युक्तमिति प्रतिपाद्य स्वपक्षमुपसंहारेण दर्शयति
तस्मात् प्राक्कार्यनिष्पतेर्व्यापारो यस्य दृश्यते ।
तदेव कारणं तस्य नत्वानन्तर्यमात्रकम् ॥ ४८७ ॥ नत्वानन्तर्यमात्रकमिति। कार्यकारणव्यवस्थानिबन्धनमिति शेषः ॥ ४८७ ॥ यथोक्तमेवार्थं संक्षिप्य दर्शयन्नाह
संक्षेपोऽयं विनष्टाच्चेत् कारणात् कार्यसम्भवः । प्रध्वस्तस्यानुपायत्वान्निष्कारणमिदं भवेत् ॥ ४८८ ॥ अविनष्टाच्च तज्जातावनेक क्षणसम्भवात् ।
क्षणिकत्वं न भावानां व्याहन्येत तदा कथम् ॥ ४८९ ॥
अत्र द्वयी कल्पना - विनष्टाद्वा कारणात् कार्यं भवेद्, अविनष्टाद्वा; नष्टानष्टविनिर्मुक्तस्य वस्तुनोऽभावात् । तत्र न तावदाद्यः पक्षः, नष्टस्यासत्त्वेन तत उत्पादाभ्युपगमे कार्यस्य निर्हेतुकत्वप्रसङ्गात् । ततश्च नित्यं सत्त्वादिर्युज्यते । नापि द्वितीयः; अनेकक्षणावस्थायित्वेन भावानां क्षणिकत्वहानिप्रसङ्गात् । न कथं व्याहन्येर्तेति । व्याहन्यत एवेत्यर्थः । तथा हिभावः प्रथमं तावदुत्पद्यते, ततो व्याप्रियते, ततः कार्यमुत्पाद्य पश्चाद्विनश्यति - इत्येवमेकस्यैव वस्तुनोऽनेकस्मिन् क्षणे सन्निधानमिति क्षणिकत्वव्याहतिः स्यात् ॥ ४८८ - ४८९ ॥
एवं कार्यकारणभावानुपपत्तिं प्रतिपाद्य तदधिगन्तृप्रमाणानुपपत्तिं दर्शयन्नाह - क्षणस्थायी घटादिश्चेनोपलभ्येत चक्षुषा ।
न हि नष्टाः प्रतीयन्ते चिरातीतपदार्थवत् ॥ ४९० ॥