________________
कर्मफलसम्बन्धपरीक्षा
१४९ मद्विनाशात् फलं न स्यान्मत्तोऽन्यस्यापि वा भवेत्॥ ४८०॥ इति नैव प्रवर्तेत प्रेक्षावान् फललिप्सया।
(थो० वा०, आ० ३२,३३) शुभाशुभक्रियारम्भे दूरतस्तु फलं स्थितम्॥ ४८१॥ क्षणिकत्वाभ्युपगमे हि सर्वभावानां नैरात्म्यमेवाभ्युपगतं भवेत्, हेतुपरतन्त्रतया सर्वस्यास्वतन्त्रत्वात् । तस्मिन् सति प्रेक्षावान् क्रियाप्रवृत्तेः प्रागेवावबुध्यते अवधारयति। किं तत् ? इत्याह-मद्विनाशदित्यादि । मम विनाशादूर्ध्वं फलं मम न स्यात्; फलप्रसवकाले ममाभावात् । अथापि फलं भवेत्, तदा मत्तोऽन्यस्य क्षणान्तरस्य स्यादिति ज्ञात्वा प्रवृत्तिरेव प्रेक्षावतो न सम्भवति, किं पुनः प्रवृत्तिपूर्वककर्मजनितं फलं भविष्यति; तस्या दूरत एवासम्भाव्यमानत्वेनावस्थितत्वात् ! ॥ ४८०-४८१॥
एवं कर्मफलसम्बन्धो नोपपपद्यत इति प्रतिपादितम् ।। इदानी कार्यकारणभावानुपपत्तिं कुमारिनुमतेनैव प्रतिपादयन्नाह
नाऽनागतो न वातीतो भावः कार्यक्रियाक्षमः।
वर्तमानोऽपि तावन्तं न कालमवतिष्ठते ॥४८२॥ तावन्तमिति। उत्पद्य यावता कालेन कार्यं निवर्त्तयति तावन्तं कालं नावतिष्ठते; क्षणिकत्वादिति भावः ॥ ४८२॥ . [G.168] "नाऽनागतः" (तत्त्व० ४८२) इत्यादेर्यथाक्रमं समर्थनमाह
न लब्धात्मकं वस्तु . पराङ्गत्वाय कल्प्यते'। न विनष्टं न च स्थानं तस्य कार्यकृतिक्षमम्॥४८३॥
पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये। . पाश्चात्त्यास्यनिमित्तत्वाद् उत्पत्तिर्नोपपद्यते॥ ४८४॥ .
अनागतं हि नामोच्यते यदलब्धात्मतत्त्वम्, यच्चालब्धात्मतत्त्वं तदसत्, यच्चासत्तदशेषसामर्थ्यशून्यम्, यच्चाशेषसामर्थ्यरहितं तत् कथं पराङ्गत्वाय कल्प्यते, परं प्रति हेतुभावं प्रतिपद्यत इत्यर्थः । समर्थस्यैव हेतुभावसम्प्रतिपत्तेः । एवं विनष्टमपि सर्वसामर्थ्यशून्यत्वान्न पराङ्गत्वाय कल्प्यत इति सम्बन्धः । न चापि वर्तमानस्य स्थानमस्ति, यत्कार्यकृतौ= कार्यकरणेक्षमं भवेत्। किञ्च-यदि पूर्वकक्षणो निरन्वयं विनश्यतीति कल्प्यते, तदा पाश्चात्त्यस्य क्षणस्य निमित्ताभावादुत्पत्तिर्न प्राप्नोति ॥ ४८३-४८४ ॥
स्यादेतद्- यथा सुलान्तयो मोन्नामौ समं भवतः, तद्वद्धतुफलयो शोत्पादाविष्टौ, अतो वर्तमानादविनष्टादेव कार्योत्पत्तेरिष्टत्वान्नानिमित्ता तस्योत्पत्तिर्भविष्यति? इत्याह
नाशोत्पादसमत्वेऽपि नैरपेक्ष्यात् परस्परम्। १. ०स्याथ-तत्रस्थः पाठः। २-२. 'प्रवृत्तिः स्यात् न च वेदप्रमाणता'- इति तत्रस्थ पाठः। ३. पूर्वमे०- पा०, गा० ।।
४-४, कालं नैवावल-पा०, गा०। ५. कल्पने-पा०, गा०।
• ६. पश्चात्तस्या०-पा०, गा०॥ ७. नैवापेक्षा- पा०, गा०।