________________
९. कर्मफलसम्बन्धपरीक्षा
इदानीं "कर्मतत्फलसम्बन्धव्यवस्थादिसमाश्रयम्" (तत्त्व० १.१) इत्येतत्समर्थनार्थं चोद्योपक्रमपूर्वकमाह
क्षणिकानित्यतालीढं सर्वं चेद् वस्तु तत् कथम्।
कर्मतत्फलसम्बन्धकार्यकारणतादयः ॥४७६॥ क्षणिकानित्यता ग्रहणं कालान्तरस्थाय्यनित्यताव्यवच्छेदार्थम् । क्षणिकानां सतामनित्यता क्षणिकानित्यता, तया लीढम्=समाक्रान्तं यदि सर्वमेव वस्तुजातं प्रतिज्ञायते भवद्भिः, तदा येऽमी कर्मफलसम्बन्धादयो लोकशास्त्रयोः प्रतीतास्ते कथं सिध्येयुः ! आदिग्रहणाद्धेतुफलाधिगन्तृ प्रमाणम्, अनुभवे प्रत्यभिज्ञानम्, अन्यस्मिन्नर्थे दृष्टेऽर्थान्तरेऽभिलाषः, बन्धमोक्षौ, स्मरणम्, संशयपूर्वको निर्णयः, स्वयं निहितप्रत्यनुमार्गणम्, दृष्टार्थकुतूहलविरमणम्इत्येवम्प्रकाराः कुमतिपरिकल्पिताश्चोधराशयो गृह्यन्ते। न हि लोकशास्त्रप्रतीतार्थविरोधेन प्रतिज्ञायमानोऽर्थः सिद्धिमासादयतीत्यभ्युपेतप्रतीतबाधादोषः प्रतिज्ञाया इति भावः। तथा हि- येनैव कृतं कर्म शुभादिकं तेनैव तत्फलमुपभुज्यते-इति. लोके. प्रतीतम्। न हि देवदत्तेन कृते कर्मणि शुभादिके यज्ञदत्तस्तत्फलमिष्टनिष्टं चोपभुङ्क्त इति प्रसिद्धम् । नापि शास्त्रे, यथोक्तम्
___ "अनेनैव कृतं कर्म कोऽन्यः प्रत्यनुभविष्यति!" ( ) इति।
तच्चतत् क्षणिकपक्षे विरुध्यते; कर्मफलपरिग्राहकस्यैकस्य कर्तुरभावेन कृतनाशकृताभ्यागमदोषप्रसङ्गात् ॥ ४७६ ॥ . कथम्? इत्याह
यः क्षणः कुशलादीनां कर्तृत्वेनावकल्प्यते। फलप्रसवकाले तु नैवासावनुवर्त्तते॥४७७॥ यः फलस्य प्रसूतौ च भोक्ता संवर्ण्यते क्षणः । तेन नैव कृतं कर्म तस्य पूर्वमसम्भवात्। ४७८॥ कर्मतत्फलयोरेवम् एककत्रपरिग्रहात्।
कृतनाशाकृतप्राप्तिरासक्ताऽतिविरोधिनी ॥४७९॥ [G.167] नैवासावनुवर्तते इति। तस्योत्पादानन्तरमेव निरुद्धत्वात्। एककत्रपरिग्रहादिति। एकेन क; तयोः कर्मफलयोरपरिगृहीतत्वादित्यर्थः । कर्तुः फलेनानभिसम्बन्धात् कृतनाशः, अकर्तुश्च फलेन योगादकृताभ्यागमः । अतिविरोधिनीति। लोकशास्त्रयोरेवमदर्शनादिति भावः ॥ ४७७-४७९ ॥
एवं तावत् प्रवृत्तिमभ्युपगम्य कृतनाशकृताभ्यागमप्रसङ्ग उक्तः। इदानी प्रवृत्तिरेव न सम्भवतीति कुमारिलमतोपन्यासेन दर्शयति
नैरात्म्यवादपक्षे तु पूर्वमेवावबुध्यते।