________________
सामान्य (जाति) परीक्षा
२११ न सिद्धाः, न ह्येषामासादिस्वलक्षणभावानां साक्षादभिधानप्रज्ञानहेतुत्वमस्ति, सर्ववाग्विकल्पगोचरातीतरूपत्वात् स्वलक्षणस्येत्यतः साध्यविकलता दृष्टान्तस्य । पारम्पर्येण तु हेतुत्वकल्पनायामतिप्रसङ्गः स्यात्; सर्वस्यैव सर्वत्र पारम्पर्येणोपयोगस्य विद्यमानत्वात् ॥७३२-७३३ ॥ यद्येवम्, कथं तर्हि लोकेऽङ्कुशादि बाह्यमेव तद्धेतुत्वेनाध्यवस्यति? इत्याह
अन्तर्मात्रासमारूढं सांवृत्तं त्ववलम्ब्य ते। __ बहीरूपाध्यवसितं प्रवर्त्तन्तेऽङ्कशादिकम्॥७३४॥ यत्तावदङ्कशादिप्रज्ञप्त्युपादानं स्वलक्षणम्, न तद्विकल्पैः स्पृश्यत इत्युक्तम्। यत्तु सांवृतं तत् कल्पनाशिल्पिनिर्मितात्मरूपतयाऽन्तर्मात्रारूढमेव, न बाह्यम्। दृश्यविकल्पयोस्तु विवेकेनानभिज्ञतया जनो बाह्यमिव तमाकारं मन्यमानो बाह्यमेव वस्त्वभिधावतीति नातो बाह्यरूपतासिद्धिरङ्कुशादीनाम्। अङ्कशादिकमिति अवलम्ब्य' इत्यनेन पूर्वकेण सम्बन्धनीयम् अन्तर्मात्रासमारूढं बहीरूपतयाऽध्यवसितं सांवृतमङ्कशादिकमालम्ब्य बाह्ये प्रवर्तत इत्यर्थः अन्तर्मात्रा=बुद्धिः ॥ ७३४॥ यच्च गवादिविषयत्वे सतीति विशेषणम्, तदंप्ययुक्तमेव; व्यवच्छेद्याभावादिति दर्शयन्नाह
क्रियागुणव्यपदेशाभावो हेतुश्च वर्ण्यते। अभावप्रत्ययस्येति विशेषणमनर्थकम् ॥७३५॥ तदप्ययुक्तं हेतुत्वे वस्तुता शक्तितोऽपि च।
अभावप्रत्ययः प्राप्तः सत्तादिष्वविशेषतः॥७३६॥ अभावप्रत्ययस्यापि क्रियागुणव्यपदेशाभाव एव हेतुत्वेन भवद्भिर्वर्ण्यते। [G.243]
तदप्ययुक्तमिति । क्रियाद्यभावस्य हेतुत्वोपवर्णनम् । तथा हि-कार्योत्पादनसामर्थ्यमेव हेतुत्वमुच्यते, तच्च सामर्थ्य वस्त्वाधारमेव; तल्लक्षणत्वाद्वस्तुनः । यदि चाभावोऽपि तथाविधसामर्थ्याध्यासितो भवेत्, तदा कथमिव वस्तुत्वं नासादयेत्; एतावन्मात्रनिबन्धनत्वाद् वस्तुनः । ततश्चाभावरूपतामेव विजह्यात्; वस्तुस्वभावप्रच्युतिरूपत्वादभावस्य। अपि च-यदि क्रियागुणव्यपदेशांभावोऽभावप्रत्ययहेतुः स्यात्, तदा सत्तादिष्वप्यभावप्रत्ययः प्राप्तः, तत्रापि शशविषाणादिवत् क्रियागुणव्यपदेशाभावाविशेषात् ॥ ७३५-७३६॥ हेतुश्चासिद्ध इति दर्शयन्नाह
वैलक्षण्यमसिद्धं च पिण्डाकृत्यादिबुद्धितः।
तज्ज्ञानानामसिद्धोऽपि हेतुरेष भवत्यतः॥७३७॥ न हि गवादिप्रत्ययानां पिण्डादिव्यतिरिक्तमर्थान्तरमध्यवसेयमस्ति, येन तत्प्रत्ययान्यत्वमेषां भवेत् ॥ ७३७॥ . प्रतिज्ञायाश्चानुमानबाधेति दर्शयन्नाह
अन्वयी प्रत्ययो यस्माच्छब्दव्यक्त्यवभासवान्।
वर्णाकृत्यक्षराकारशून्या जातिस्तु वर्ण्यते॥७३८ ॥ एतदुक्तं भवति- अनुगामिप्रत्ययानां पिण्डादिव्यतिरिक्तं निमित्तमालम्बनभृतमेव भवद्भिः सिसाधयिषितम्, तच्चायुक्तम् तस्याप्रतिभासनात्, तद्विलक्षणवर्णाकृत्यादिप्रतिभास