________________
२१२
तत्वसंग्रहे नाच्च। तथा हि-भवद्भिर्वर्णाकृत्यक्षराकारशून्यमेव वर्ण्यते गोत्वादिसामान्यम्, विज्ञानं च वर्णादिप्रतिभासानुगतमनुभूयते, तत् कथमस्य वर्णादिशून्यमालम्बनं भवेत्, न ह्यन्याकारस्य विज्ञानस्यान्यदालम्बनं युक्तम्; अतिप्रसङ्गात् । प्रयोगः-यो यद्विलक्षणार्थप्रतिभासः प्रत्ययः स तद्ग्राहको न भवति, तद्यथा शब्दज्ञानं न रूपग्राहकम्। जातिविलक्षणवर्णादिप्रतिभासश्चान्वयी प्रत्यय इति व्यापकविरुद्धोपलब्धेः । शब्दव्यक्त्यवभासवनिति। शब्द: गौरित्यादिव्यपदेशः; व्यक्ति:=वर्णसंस्थानात्मिका, तयोरवभासः सोऽस्यास्तीति तद्वान्। अक्षराणि गकारौकारविसर्जनीयादीनि ॥ ७३८॥
... शङ्करस्वामी प्राह'- "सामान्यमपि नीलत्वादि नीलाद्याकारमेव, अन्यथा हि 'नील' [G.244] इत्येवमनुवृत्तिप्रत्ययो न स्यात्, ततश्च हेतोरसिद्धत्वान्नांनुमानबाधा" इति । तदत्राह
.. सामान्यस्यापि नीलादिरूपत्वे गुणतोऽस्य कः।
भेदो नानुगतश्चैको नीलादिरुपलक्ष्यते॥७३९॥ भासमानोऽपि चेदेष न विवेकेन लक्ष्यते। . . तत्कथं धीध्वनी व्यक्तौ वर्तेते तद्बलेन तौ॥७४०॥ निश्चयात्मक एवायं सामान्यप्रत्ययः परैः।
इष्टश्चाग्रहणप्राप्तेर्युक्तं . नानुपलक्षणम्॥७४१॥ एवं सति गुणान्नीलादेर्नीलत्वादिसामान्यस्य विशेषो न प्राप्नोति; आकाराभेदात्।
स्यान्मतम्-गुणो हि नीलदिरनुगतो न भवति, सामान्यं तु भिन्नदेशकालव्यक्त्यनुगामीत्यत आकारभेदोऽस्ति? इत्याह- नानुगतश्चैक इत्यादि। न हि नीलादिगुणव्यतिरिक्तमपरं नीलत्वादि नीलादयाकारानुगतमनुगामि प्रतिभासमानमालक्ष्यते; अध्यक्षत एकस्यैव नीलादेरसाधारणस्य प्रतिभासनात् । नापि विकल्पचेतसि नीलत्वादि द्वितीयं प्रतिभासते, यथादृष्टस्यैव तेनाध्यवसायात्।
स्यादेतद्- यथा भवतां क्षणिकत्वं भासमानमपि नोपलक्ष्यते विवकेन मन्दैः, तथेदमपि सामान्यमिति? तदप्ययुक्तम् । एवं हि 'तदर्शनबलादू भिन्नास्वपि व्यक्तिष्वभिन्नौ धीध्वनी भवत' इति यदेतद्वर्णितं तन्नोपपद्यते; न हि विशेषेणानुपलक्षणे विशेष्ये धीरुपजायते, यथा दण्डानुपलक्षणे दण्डेति प्रत्ययो न भवति, तद्वदत्रापि स्यात्। तथा हि-स्वतःशब्दप्रत्ययगोचरातिवृत्ता भेदा भवद्भिरुपवर्ण्यन्ते, ताँश्च भेदान् स्वतो बुद्धिशब्दविषय व्यतिवृत्तशरीरान् सामान्यदर्शनबलेन प्रतियन् प्रतिपत्ता कथं तस्यैवानुपलक्षको नाम! आ च-यस्याविकल्पकमेव प्रत्यक्षम्, तस्यैतद्युक्तं वक्तुम्-प्रतिभासमानमपि नोपलक्ष्यत इति निश्चयप्रत्ययव्यापारत्वादुपलक्षणस्य। यस्य तु भवतः सर्वमेव सविकल्पकं प्रत्यक्षमिति पक्ष: तस्यायुक्तमनुपलक्षणम्; अग्रहणप्रसङ्गात् । इयमेव हि निश्चयानां स्वार्थप्रतिपत्तिर्यत्तन्निश्चयनम् तच्चेन निश्चिन्वन्ति, न गृह्णन्तीत्येव प्राप्तम् ॥ ७३९-७४१॥ . .
अभ्युपेत्यापि नीलादिव्यतिरिक्तार्थान्तरसिद्धिं नेष्टसिद्धिः; भवतामभिमतसाध्यार्थस्यानुमानबाधितत्वात्, तेन व्याप्त्यसिद्धेरिति दर्शयन्नाह१. त्वाह-पा०, गा०।
२. ०श्चाग्रहणे प्राप्ते युक्तं-पा०, गा० ।'