________________
सामान्य (जाति) परीक्षा
२१३ सिद्धेऽप्यन्यनिमित्तित्वे न सामान्यं प्रसिध्यति।
अनुगाम्येकमधौव्यविविक्तं च क्रमोदयात्॥७४२॥ (G.245] अध्रौव्यविविक्तमिति ।अनित्यत्वविविक्तम्, नित्यमिति यावत् ! कस्मान्न सिध्यतीति? क्रमोदयात्। गवाद्यभिधानप्रत्ययानामिति शेषः । यदा हि तथाविधसामान्यधर्महेतुकत्वमेषामभविष्यत्, तदा क्रमेणामी नोदपत्स्यन्त; अविकलकारणत्वाद् युगपदेवोत्पद्येरन्, युगपदुत्पद्यमानानेकपदार्थवत् । न हि परैनुपकार्यस्य काचिदपेक्षाऽस्ति ॥ ७४२ ॥ सम्प्रति हेतोः सिद्धिमभ्युपगम्य व्यभिचारमाह
पदार्थशब्दः कं हेतुमपरं षट्स्वपेक्षते। __ अस्तीति प्रत्ययो यश्च सत्तादिष्वनुवर्त्तते॥७४३॥ न हि पदार्थत्वं नाम षट्सु पदार्थेष्वपरमस्ति, येन ‘पदार्थः पदार्थः' इत्यनुगामी प्रत्ययो भवेत्। तथा सामान्यविशेषसमवायेषु न सत्तास्ति, येनास्तीति तेषु प्रत्ययः स्यात्; द्रव्यगुणकर्मस्वेव सत्तायाः स्थितत्वात् । द्रव्यादिषु तु सामान्यनिबन्धन एव व्यपदेशः परेषामभीष्ट इति न तेन व्यभिचारश्चोत्पद्यते ॥ ७४३॥
स्यादेतत्-तत्रापि सत्तादिसदुपलम्भंकप्रमाणविषयत्वं धर्मोऽस्ति, तेनान्यनिमित्तोऽयमत्रापि व्यपदेश इत्यव्यभिचार एव? इत्याह
अन्यधर्मनिमित्तश्चेत् तत्राप्यस्त्यस्तितामतिः। तदन्यधर्महेतुत्वेऽनिष्टासक्तेरधर्मिता ॥७४४॥
व्यभिचारी ततो . हेतुरमीभिरयमीक्ष्यते । . . न च सर्वोपसंहाराद् व्याप्तिरस्य प्रसाधिता ॥७४५॥
अन्यधर्मनिमित्तत्वेऽप्यभ्युपगम्यमाने व्यभिचारदोषस्तदवस्थ एव; यस्मात् तत्राप्यस्मिन् धर्मेऽस्त्येवास्तितामतिः-अस्ति सद्धर्म इति । तत्राप्यन्यधर्माभ्युपगमेऽनवस्थाप्रसङ्गः स्यात्। अन्येषामपि धर्मान्तराश्रयत्वाद्धर्मित्वप्रसङ्गश्च। ततश्च षडेव पदार्था धर्मिणः-इति षट्सङ्ख्यानियमो न स्यात्। अथानवस्थांभयाद्धर्मान्तरं नाश्रीयते? तदाऽमीभिः पदार्थेषु सत्तादौ धर्मे वा प्रवृत्तैः प्रत्ययैर्व्यभिचारिता हेतीः।
मा भूद्वाऽस्य साधारणानैकान्तिकता, सन्दिग्धव्यतिरेकिता तु केन परिह्रियते? इत्येतदाह-न. च सर्वोपसंहारदित्यादि। सर्वस्मिन् धर्मिणि हेतोः साध्येन व्याप्तिप्रदर्शनं सर्वोपसंहारः।
स्यादेतत्-व्याप्तिरत्र युक्तैवेति, निमित्तान्तराभावे हि तद्वस्तुप्रत्ययवैलक्षण्यं कथमुपपद्येत, न ह्येकविषयाणां बहूनामपि प्रत्ययानां वैलक्षण्यमस्ति, यदि स्यात्, तदा [G.246] रूपरसादिप्रत्ययानामपि नानाविषयो न सिध्येत्। प्रत्ययभेदकृतत्वाद्विषयभेदव्यवस्थानस्येति? तदप्ययुक्तम्; न हि सामान्यप्रत्ययो वस्तुस्वस्वलक्षणविषयः परमार्थतो युक्तः; आविष्टाभिलापेन प्रत्ययेन स्वलक्षणस्याविषयीकारणात्। किन्तु यतो यतस्तस्यैकस्यापि वस्तुनो व्यावृत्तिः, १. सत्तासामान्य०-०। २. ०श्चोदयते-पा०, गा० । ३. रयमिष्यते-पा०, गा०।