________________
२१४
तत्वसंग्रहे
तन्निबन्धनास्तत्र यथासङ्केताभ्यासं तद्वस्त्वनुभवद्वारा यतो विकल्पा वाचकाश्च विश्वकल्प यदि प्रवर्तेरन्नसत्यपि सामान्ये तदा को विरोध इत्यतो व्याप्त्यभाव उच्यते ॥ ७४४-७४५ ॥ यच्चोक्तम्-"गवादिष्वनुवृत्तं च" (तत्त्व० ७१८) इत्यादि, तत्राह
तदनन्तरमुद्दिष्टमनेनैव निराकृतम्।
सामान्यसाधनं तस्मिन्निष्टसिद्धयादयः समाः ॥७४६ ॥ अनेनैवेति समनन्तरोक्तहेतुदूषणेनैव; तत्रापि तुल्यदोषत्वात्। तथा हीष्टसिद्ध्यादयोऽत्रापि समानाः। आदिशब्देन साध्यशून्यता, दृष्टान्तस्य हेतोरसिद्धिर्व्यभिचारश्चेत्यादि परिगृह्यते ॥ ७४६॥ प्रकारान्तरेणापि व्यभिचारमाह
पाचकादिषु च ज्ञानं विशिष्टमुपजायते। अभावेऽभावबुद्धिश्च विनैकेनानुगामिना॥७४७॥ इच्छारचितरूपेषु नष्टाजातेषु वा ततः। .
अनैकान्तिकता हेतोः सर्वैरेभिर्यथोदितैः ॥७४८ ॥ न हि तत्रैकमनुगामि निमित्तं पाचकत्वपाठकत्वादिकमस्ति; येन पाचकः पाठक इत्यनुवृत्तिप्रत्ययो भवेत्। तथा प्रगभावादिषु चतुर्षु अभावोऽभावः' इति कथमनुवृत्तप्रत्ययो भवेत्! न ह्यत्रापि सामान्यमस्ति; तस्य वस्त्वाश्रितत्वात्। इच्छारचितरूपेषु चन्द्रापीडादिषु नष्टाजातेषु नभस्तलोपकल्पितधवलगृहादिषु नष्टाजातेषु च महासम्मतशङ्खप्रभृतिषु बुद्धिर्विनैकेनानुगामिना कथं भवेत् ! न हि तत्रापि सामान्यमस्ति; व्यक्त्याश्रितत्वात्तस्य ॥ ७४७-७४८ ॥
न पाचकादिबुद्धीनामस्ति किञ्चिनिबन्धनम्। कर्मास्ति चेत् प्रतिव्यक्ति न तु तद्भिद्यते तथा ॥७४९॥ भिन्नेष्वन्वयिनोऽसत्त्वे न युक्ताम्वयिनी मतिः। इत्येकमिष्टं सामान्यं सर्वव्यक्त्युनवृत्तिमत्॥७५०॥ कर्मान्वयदरिद्रं च यदि हेतुः प्रकल्प्यते। तदा व्यक्तय एवास्याः किमितीष्टा न हेतवः ॥७५१॥ पाचकादिमतिर्न स्यात् तत्र चोपरतक्रिये। न सदासन्निधानं हि कर्मेष्टं जातिवत् परैः॥ ७५२॥ अतीतानागतं कर्म निमित्तीकृत्य तेषु चेत्।
पाचकादिषु धीशब्दौ, तन हेतुरसत्त्वतः ॥७५३॥ न पाचकादीत्यादिनारे पाचकादिषु ज्ञानं समर्थयते। [G.247) न हि पाचकादिषु कर्मनिबन्धना बुद्धिरिति युक्तं वक्तुम्; तस्यापि कर्मणः प्रतिव्यक्तिवद्भेदाभ्युपगमात् । भिन्नेषु हि विनैकेनानुगामिनाऽन्वयी प्रत्ययो नोपपद्यत इति कृत्वा सामान्यं सर्वव्यक्त्यनुगतं परिकल्प्यते भवद्भिः । यदि चान्वयशून्यमपि कर्माभिन्नाभिधानप्रत्ययहेतुः स्यात्, तदा को व्यक्तिषु प्रद्वेषो येन ताः परिहत्य सामान्यं तद्धेतुत्वेन कल्प्यते! किञ्च-यदि कर्मनिबन्धनः पाचकादिषु १. ननु-पा०. गा।
२. पाचकादिश्वित्यादिना-।