________________
सामान्य (जाति) परीक्षा
__ २१५ प्रत्यय: स्यात्, तदा परतः क्रिये 'पाकमकुर्वति पाचक इति प्रत्ययो न स्यात्। न हि जातिवद्भवद्भिः सदा सन्निहितं कर्माभीष्टम्, येनोपरतक्रियेऽपि प्रत्ययः स्यात्। न हि यो यन्निबन्धनः स तदभावे भवितुमर्हति; अतिप्रसङ्गात्, एवं हि सर्वः सर्वनिबन्धनं स्यात्। न चाप्यतीतानागतं कर्म तत्प्रत्ययनिबन्धनं युक्तम्; तस्यातीतादेरसत्त्वात्, असतश्च हेतुभावानुपपत्तेः ॥ ७४९-७५३॥
शङ्करस्वामी प्राह-"पाचकाद्यनुवृत्तिप्रत्ययस्तत्कर्मजातिसम्बद्धया क्रियया योगस्तस्माद् भवति, तेनोपरतक्रियेऽपि क्रियया 'ध्रुवनिमित्तस्योपलक्षणान्नापाचकादित्यय इत्यवसेयम्" ( ) इति। तदेतदर्शयति
क्रियात्वजातिसम्बन्धक्रियायोगान्मतिर्यदि।
नष्टक्रियेऽपि च तया ध्रुवहेतूपलक्षणात् ॥७५४॥ तयेति क्रियया। ध्रुवनिमित्तं क्रियात्वजातिः ॥ ७५४॥ न त्क्त्यिादिना प्रतिविधत्ते
न तु नष्टक्रिये तत्र लक्षितापि न विद्यते।
गृह्यते वा ध्रुवा जातिः स्वाधारविनिवृत्तितः ॥७५५॥ स्वस्या आधार:-क्रियाजाते: सैव क्रिया। न हि जातेराश्रयग्रहणमन्तरेण केवलाया ग्रहणम् अवस्थितिर्वास्ति; अनाश्रितत्वप्रसङ्गात् ।। ७५५ ॥ [G.248] स्यादेतद्-एकदा जातेर्लक्षितत्वादुपरतेऽपि कर्मणि तदाधारे प्रवर्तत एव तन्निबन्धनप्रत्ययः? इत्याह
दण्डाङ्गदादिजातीनामेकदा न हि लक्षणे। तद्वियोगेऽपि दण्ड्यादिमतिस्तेषु प्रवर्त्तते ॥७५६॥ अथापि पाचकत्वादिजातिरन्यैव वर्तते। सद्योजातेऽपि तद्योगात् पाचकादिमतिर्भवेत् ॥७५७॥ सदादिमतिवन्नों चेत् तदा सा समवायिनी। पश्चादपि न सा तत्र तथा स्यादविशेषतः ॥७५८॥ तत्सम्बद्धस्वभावस्य वैगुण्यान्न तयोरसौ।
समवायस्तथा पश्चात् तादात्म्ये च कथं भवेत् ॥७५९॥ एवं ह्यतिप्रसङ्गः स्यात्, न हि दण्डादिजातीनामेकदा लक्षितत्वात् परित्यक्तदण्डेष्वपि तेषु देवदत्तादिषु दण्डी, कुण्डली-इत्यादिमतिर्भवेत्। न च पाचकत्वादिजातिरत्राप्यस्तीति युक्तम्; सद्योजातेऽपि जातेर्विद्यमानत्वात् पाचकादिबुद्धिप्रसङ्गः स्यात्।।
स्यादेतद्-यथा सत्तानिबन्धनापि सदिति मतिर्भवन्ती न सर्वदा भवति, तथा जातिरप्याश्रयविशेषसमवायिनी भवन्ती न सर्वदा भविष्यति, तेन सद्योजातावस्थायां जाति व समंवायिनी भविष्यति । 'समवायिनी' इत्युपलक्षणम्, नाभिव्यक्तेत्यपि ज्ञेयम्। एवं तर्हि न - १. लक्षणात्पाचकादि०-पा०,गा।
२. या-पा०, गा०। 3 क्रियत्वजाते.-गा।
४. मतिवान्नौ-जै०।