________________
२१६
तत्वसंग्रहे कदाचिदपि सा तत्समवायिनी प्राप्नोति । तथा हि-प्रथमतरं तयोर्जातिद्रव्ययोस्तत्सम्बद्धस्वभाववैगुण्यान्न समवायो जातेः, पश्चादपि तद्वैगुण्यं तदवस्थमेवेति कथं सा समवेयात् ! न हि द्रव्यं भवतां मतेन क्षणिकम्, येन पश्चाद्विशिष्टता तस्य भवेत् ! तथेति समवायिनी। तयोरति जातिद्रव्ययोः । तादात्म्य इति अपरित्यक्तप्राक्तनविगुणरूपत्वे ॥ ७५६-७५९॥ अथापि द्रव्यमनित्यमङ्गीक्रियते, तदापि दोष इति दर्शयन्नाह
यदि नामाधुवा व्यक्तिर्लभेतातिशयं तदा।
जातेस्तु विगुणं रूपं न कदाचिनिवर्त्तते ॥७६०॥ । यदि नामाध्रुवतया व्यक्तिरतिशयं पश्चाल्लभते, जातेस्तु ध्रुवत्वात् प्राग्वत् पश्चादपि तत्समवायविगुणं रूपमस्ति, कथमिव पश्चादपि समवायिनी भवेत्। न चापि पश्चात्कालभाविद्रव्यसमवायाविगुणरूपैव जातिः सर्वदावस्थितेति शक्यं वक्तम्; द्रव्यस्यापि [G.249] नित्यत्वप्रसङ्गात्, तत्सम्बद्धस्वभावाया जातेः सदावस्थितत्वात्। न हि द्वितीयसम्बन्ध्यभावे तत्सम्बद्धत्वभावात् स्वभावावैगुण्यं युक्तम्॥७६०॥ पचनादीत्यादिनोद्दयोतकरविहितं परिहारमाशङ्कते
पचनादिक्रियायाश्च प्रधानं साधनं मतम्।
पाचकादिति तच्चास्ति प्राधान्यं पाचकान्तरे ॥७६१॥ .. स ह्याह-हेत्वर्थापरिज्ञानादिदमुच्यते। यथा पाचकादिशब्दा अनुवृत्ताश्च भवन्ति, न च पाचकत्वं नाम सामान्यमस्ति, तथा गवादिष्वनुवृत्तिप्रत्यया इति । यस्माद्विशेषप्रत्ययानामनाकस्मिकत्वादित्यस्य हेतोरयमर्थ:-पिण्डप्रत्ययव्यतिरिक्तप्रत्ययस्य निमित्तान्तरादुत्पाद इति, न पुनः सर्वोच्चवृत्तिप्रत्ययः सामान्यादेव भवतीति। एवं सति पचनक्रियाया यत् प्रधानं साधनम्, तत् पाचकशब्देनोच्यते, तच्च प्राधान्यं पाचकान्तरेऽप्यस्तीति न दोष इति ॥७६१ ॥ तदेतत् प्राधान्यमित्यादिना प्रतिविधत्ते- - ,
प्राधान्य किमिदं नाम न शक्तिरसमन्वयात्।
द्रव्यक्रियागुणात्मादि नात एवावकल्प्यते॥.७६२॥ किमिदं प्राधान्यं नाम? यदि शक्तिः; तदयुक्तम् तस्याः प्रत्याधारनियताया व्यक्तत्यन्तरासमन्वयात्। नापि द्रव्यादीनामात्मा स्वभावः स्वातन्त्र्यम्; अत एवासमन्वयात् । आदिशब्देन षट्पदार्थव्यतिरिक्त इष्टो धर्मो गृह्यते। यत् पुनरुक्तम्-"निमित्तान्तरादुत्पाद इत्यस्यायमर्थः" इति, तत्र प्रतिविहितमेव। सामान्येन किञ्चित् निमित्तान्तरमस्तीति साधने सिद्धसाध्यता; सङ्केतमनस्कारस्य निमित्तत्वेनेष्टत्वात्। विशेषेण त्वन्वयवैकल्यं व्यभिचारश्च पाचकादिप्रत्ययैरिति ॥ ७६२ ॥ तदित्यादिनोपसंहरति
तद्विजातीयविषिरूपमात्रावसायिनी । सङ्केतभेदसापेक्षा पाचकादिषु शेमुषी॥७६३ ॥ यथासङ्केतमेवातः शब्दा बुद्धय एव च। .. .
१.१. तत्सम्बद्धस्वभावा- पारगा।