________________
२१७
सामान्य (जाति) परीक्षा विभागे 'नानुवर्तन्ते विनैकेनानुगामिना ॥७६४॥ तत्-तस्मात्, यतो निमित्तान्तरं निरूप्यमाणं पाचकादिधियो नोपपद्यन्ते, तस्मात् । विजातीयस्य व्यवच्छिन्नवस्तुमात्राध्यवसायिनी यथासमयम् 'पाचक: पाचकः' इत्येवमाकाराऽनुगता भिन्नेष्वपि वस्तुष्वभेदेन पाचकादिषु शेमुषी-धीरुपजायते; [G.250] सर्वत्र विजातीयव्यवच्छेदस्य विद्यमानत्वात् । यत एवं गवादिष्वपि यथासङ्केतमभिन्नाकारव्यवसायिनः प्रत्ययाः शब्दाश्च प्रवर्तिष्यन्ते विनापि सामान्यमित्यनैकान्तिकता हेतोः ॥ ७६३-७६४ ॥ तथा चेत्यादिना ‘अभावेऽभावबुद्धिश्च' इत्येतत् समर्थयते
तथा चाभावविज्ञानं नाभावेषु विरुध्यते।
ध्वनिर्वाऽनुगतोऽनर्थसङ्केतानुगमात् तयोः॥७६५॥ इदमेव हि सामान्यप्रत्ययस्य निबन्धनं व्यापि यदुत सङ्केताभोगः, अन्यथा ह्यभावेष्वभाव इत्यनुगतः प्रत्ययो ध्वनिश्च केन न विरुध्येत । न ह्यत्र जातिरस्ति; वस्तुसमवायिनीत्वात्तस्याः । कस्मान्न विरुध्यते?- इत्यत्र कारणमाह-अनर्थसंकेतानुगमात्तयोरिति । अविद्यमानो जात्यादिरों यस्मिन् सङ्केते स तथोक्तः, तस्मादनुगमात् अन्वयात्, तयोः= ध्वनिविज्ञानयोः शब्दज्ञानयोः । सङ्केतमात्रान्वयव्यतिरेकानुविधायित्वादिति यावत् ।। ७६५ ॥
घटस्य प्रागभावोऽयं घटप्रध्वंस इत्ययम्। तद्वस्तूपाधिकानेव धीरभावान् प्रपद्यते ॥७६६॥ उपाधिगतसामान्यवशादेवानुवृत्तता ।
तस्याः सर्वत्र चेन्? - घटस्येत्यादिना शङ्करस्वामिउत्तरमाशङ्कते। स ह्याह-न हि तेष्वभावेष्वनुपाधिकाः प्रत्यया दृश्यन्ते, किं तर्हि ? घटस्य प्रागभावः, प्रध्वंसाभावः-इत्येवं सर्वत्राभावप्रत्ययो वस्तूपाधिकानेवाभावानवलम्बते। तस्मात् सर्वत्रैव तस्या धिय उपाधिगतसामान्यवशादेवानुवृत्ततेति नास्ति व्यभिचार इति। तस्या इति। धियः प्रकृतत्वात् सम्बन्धः । नैवमित्यादिना प्रतिविधत्ते
नैवम्; वैलक्षण्यातदाश्रयात् ॥७६७॥ घट इत्यादिका बुद्धिस्तेभ्यो युक्ताऽनुगामिनी। नाभावो भाव इत्येषा तन्मतिस्तु विलक्षणा ॥७६८॥ न हि सत्तावशाद् बुद्धिौरश्व इति चेष्यते।
एकमेवान्यथा कल्प्यं सामान्यं सर्वसाधनम् ॥७६९॥ वैलक्षण्यसहितोऽतदाश्रय इति विग्रहः। समाहारद्वन्द्वो वा वैलक्षण्यादतदाश्रयाच्च नैव युक्तमित्यर्थः। तत्र 'वैलक्षण्यात्' इत्यस्य तावद्विस्तरेण समर्थनमाह-घट इत्यादि। [G.251] न ह्येकोपाधिनिबन्धना भिन्नाकारा बुद्धयो युक्ताः, एकेनैव सर्वसामान्यकार्यसाधनादनेकसामान्यकल्पनावैयर्थ्यप्रसङ्गात् । तस्माद् घटत्वादिसामान्यवशाद् 'घटः' इत्यादिकाधियो १. न प्रवर्तन्ते- पा०, गा०। २. यदयतो-पा०, गा०।